SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सार्धषट्शताधिकाः श्रीसुमतेर्दशसहस्राः सार्धचतुःशताधिकाः, श्रीपद्मप्रभस्य दशसहस्राः शतत्रयाधिकाः, श्रीसुपार्श्वस्य नवसहस्राः सार्धे-|| कशताधिकाः, श्रीचन्द्रप्रभस्य अष्टौ सहस्राः, श्रीसुविधिजिनस्य सप्तसहस्राः पञ्चशताधिकाः, शीतलस्याप्येतावन्त एव, श्रेयांसजिनस्य श्रीवासुपूज्यजिनस्य च षट् षट् सहस्राः, 'इत्तो'त्ति इतोऽनन्तरं विमलजिनस्य पञ्चसहस्राणि पञ्चशताधिकानि, अनन्तजिनस्य पञ्चसहस्राः, श्रीधर्मस्य चत्वारः सहस्राः पञ्चशताधिकाः, श्रीशान्तिजिनस्य चत्वारः सहस्राः, श्रीकुन्थोस्त्रयः सहस्राश्चत्वारिंशदधिकशतत्रयाधिकाः, श्रीअरजिनस्य सहस्रद्विकमेकपञ्चाशदधिकपञ्चशताभ्यधिक, श्रीमल्लेः सप्तदशशतानि पञ्चाशदधिकानि, श्रीमुनिसुव्रतस्य पञ्चदशशतानि, श्री-| नमिजिनस्य द्वादश शतानि षष्ट्यधिकानि, श्रीनेमेरेकः सहस्रः श्रीपार्श्वजिनस्य शतान्यर्धाष्टमानि, सार्धानि सप्त शतानीत्यर्थः, श्रीवीरजिनस्य | पञ्चैव शतानीति ॥ २२ ॥ इदानीं 'चउद्दसपुन्विति त्रयोविंशतितमं द्वारमाह चउद्दसपुब्वि सहस्सा चउरो अट्ठमाणि य सयाणि १ । वीसहिय सत्ततीसा २ इगवीस सया य पन्नासा ३ ॥ ३६०॥ पनरस ४ चउवीस सया ५ तेवीस सया ६ य वीससय तीसा ७ । दो सहस ८ पनरस सया ९ सयचउदस १० तेरस सयाई ११ ॥ ३६१॥ सय बारस १२ एक्कारस १३ दस १४ नव १५ अहेव १६ छच्च सय सयरा १७ । दसहिय छच्चेव सया १८ छच्च सया अट्ठसहिहिया १९ ॥ ३६२ ॥ सय पंच २० अद्धपंचम २१ चउरो २२ अछुट्ट २३ तिन्नि य सयाई २४ । उसहाइजिणिंदाणं चउदसपुवीण परिमाणं ॥ ३६३ ॥ 'चउ'इत्यादि गाथाश्चतस्रः, तत्रादिजिनस्य चतुर्दशपूर्विणां चत्वारः सहस्रा अर्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्त शतानीत्यर्थः, प्र.सा.१६ Jain Education ERP For Private & Personel Use Only KIMaw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy