SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जिनस्य पञ्चदशशतानि, एकः सहस्रः शतपञ्चकाधिक इत्यर्थः, श्रीपार्श्वजिनस्य चतुर्दशशतानि, सहस्रमेकं शतचतुष्टयाधिकमित्यर्थः, श्रीमहावीरजिनस्य च त्रयोदश शतानि, सहस्रमेकं शतत्रयाधिकमित्यर्थः २०॥ 'केवलि'त्ति द्वारमेकविंशतितममिदानीमाह वीससहस्सा उसहे १ वीसं बावीस अहव अजियस्स २। पन्नरस ३ चउदस ४ तेरस ५ बारस ६ एक्कारस ७ दसेव ८॥ ३५१॥ अट्ठम ९ सत्तेव य १० छस्सडा ११ छच्च १२ पंच सड्डा य १३ । पंचेव १४ अद्धपंचम १५ चउसहस्सा तिन्नि य सया य १६ ॥ ३५२॥ बत्तीससया अहवा बावीस सया व हुंति कुंथुस्स १७ । अट्ठावीसं १८ बावीस १९ तहय अट्ठारस सयाई २०॥३५॥ सोलस २१ पनरस २२ दससय २३ सत्तेव सया हवंति वीरस्स २४ । एयं केवलिमाणं मणपज विमाणमिहि तु ॥ ३५४ ॥ 'वीसे'त्यादिगाथाचतुष्कं, केवलिनां विंशतिसहस्रा ऋषभे-वृषभजिनस्य, विंशतिसहस्रा अजितजिनस्य, अथवा मतान्तरेण द्वाविंशतिसहस्रा अजितनाथस्य, श्रीसम्भवस्य पञ्चदशसहस्राः, श्रीअभिनन्दनस्य चतुर्दशसहस्राः श्रीसुमतिनाथस्य त्रयोदशसहस्राः श्रीपद्मप्रभस्य द्वादशसहस्राः श्रीसुपार्श्वस्य एकादशसहस्राः श्रीचन्द्रप्रभस्य दशैव सहस्राः श्रीसुविधिजिनस्य अर्धाष्टमाः सहस्राः, सप्तसहस्राः पञ्चशताधिका इत्यर्थः, श्रीशीतलजिनस्य सप्तसहस्राः श्रीश्रेयांसस्य षट् सहस्राः सार्धाः, सपञ्चशता इत्यर्थः, श्रीवासुपूज्यस्य षट् सहस्राः श्रीविमलजिनस्य पञ्च सहस्राः सार्धाः-सपञ्चशता इत्यर्थः, श्रीअनन्तजिनस्य पञ्चैव सहस्राः, श्रीधर्मजिनस्य अर्धपञ्चमाः सहस्राः, चत्वारः सहस्राः सपञ्चशता इत्यर्थः, श्रीशान्तिनाथस्य चत्वारः सहस्राः (त्रीणि च शतानि) शतत्रयाधिकाः इत्यर्थः, श्रीकुन्थुजिनस्य द्वात्रिंशच्छतानि, .99 Jain Educ tional a MOH For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy