________________
BARSHA 9545
जितजिनस्य द्वादशसहस्राश्चतुःशताधिकाः श्रीसम्भवस्य द्वादशसहस्राः श्रीअभिनन्दनस्य एकादशसहस्राः श्रीसुमतिजिनस्य दशसहस्राः पञ्चाशदधिकषट्शताधिकाः, 'छन्नउई' इत्यादिगाथायामुत्तरार्धवति शतानामिति पदं सर्वत्र सम्बध्यते, ततः श्रीपद्मप्रभस्य वादिनां षण्णवतिशताना, कोऽर्थः ?-नवसहस्राः षट्शतैरधिका इति, श्रीसुपार्श्वजिनस्य चतुरशीतिः शताना, चतुर्भिः शतैरधिकानि अष्टौ सहस्राणीत्यर्थः, चन्द्रप्रभस्य षट्सप्ततिः शताना, षड्भिः शतैरधिकानि सप्त सहस्राणीत्यर्थः श्रीसुविधेर्जिनस्य षष्टिः शतानां, षट् सहस्राणीत्यर्थः, श्रीशीतलजिनस्य अष्टपञ्चाशच्छताना, पञ्च सहस्रा अष्टशताधिका इत्यर्थः, श्रीश्रेयांसस्य पञ्चाशत् शतानां, पञ्च सहस्राणीत्यर्थः, श्रीवासुपूज्यस्य सप्तचत्वारिंशच्छतानि, चत्वारः सहस्राः सप्तशताधिका इत्यर्थः, 'अहवा बायाल'त्ति अथवा मतान्तरेण श्रीवासुपूज्यस्य द्विचत्वारिंशच्छ
तानि, चत्वारः सहस्राः शतद्वयाधिका इत्यर्थः, श्रीविमलजिनस्य द्वात्रिंशच्छतानि, त्रीणि सहस्राणि शतद्वयाधिकानीत्यर्थः, श्रीअनन्तजिला नस्य द्वात्रिंशच्छतानि, श्रीधर्मजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयमष्टशताधिकमित्यर्थः, श्रीशान्तिनाथस्य शतानां चतुर्विंशतिः, द्वे सहस्रे || ||
शतचतुष्टयाधिके इत्यर्थः, श्रीकुन्थुजिनस्य द्वे सहस्रे, श्रीअरनाथस्य षोडश शतानि, षट्शताधिकं सहस्रमित्यर्थः, श्रीमल्लिजिनस्य चतुर्दशशतानि, शतचतुष्टयाधिकं सहस्रमित्यर्थः, श्रीमुनिसुव्रतस्य द्वादश शतानि, सहस्रमेकं शतद्वयाधिकमित्यर्थः, श्रीनमिजिनस्य दश शतानि सहसमित्यर्थः, श्रीनेमिजिनस्य अष्टौ शतानि, श्रीपार्श्वजिनस्य षट् शतानि, श्रीवीरजिनस्य चत्वारि शतानि भवन्ति इति वादिमुनीनां-वाद-I समरेषु सुरासुरैरप्यजेयानां यतीनां प्रमाणं क्रमेण चतुर्विशतेर्जिनवराणामिति ॥ १९ ॥ इदानीं 'अवहि'त्ति विंशतितमं द्वारमाह
ओहिनाणिमुणीणं नउई १ चउनवइ २ छण्णवइसयाणि ३ । अहानवइसयाई ४ एक्कारस ५ दस ६ नवसहस्सा ७॥ ३४८ ॥ असीई ८ चुलसी ९बहत्तरी १० सट्ठी ११ चउप्पण १२ अट्ठच
Jain EducatioleFonal
For Private
Personel Use Only
Diw.jainelibrary.org