SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ACC SACHCREA महाविदेहक्षेत्रवर्तिषु विजयेषु चतुर्योऽधिकानामपि तीर्थकृतामुत्पत्तेः सम्भवात् कथमुत्कृष्टपदे विंशतिरेवेति ?, उच्यते, इह हि मेरौ Pापण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्षु प्रत्येकं चतुर्योजनप्रमाणबाहल्याः पञ्चयोजनशतप्रमाणायामा मध्यभागेऽर्धतृतीययोजनश तप्रमाणविष्कम्भा अर्धचन्द्रसंस्थानसंस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽभिषेकशिलाः, तत्र चूलिकायाः पूर्वदिग्भाविन्यां पाण्डुकम्बलशिलायां वे तीर्थकराभिषेकसिंहासने, तद्यथा-एकमुत्तरत एकं दक्षिणतः, तत्र ये शीताया महानद्या उत्तरतः कच्छादिषु विजयेषु तीर्थकरा उपजायन्ते ते उत्तराहे सिंहासने सुरेन्द्रैरभिषिच्यन्ते, ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषु । उत्पद्यन्ते ते दाक्षिणात्ये सिंहासने सुरेन्द्रैरभिषिच्यन्ते, तथा चूलिकायाः पश्चिमदिग्भाविन्यां रक्तकम्बलशिलायां द्वे सिंहासने, तद्यथा-एकमुत्तरतः एकं दक्षिणतः, तत्र शीतोदाया महानद्या उत्तरतो गन्धिलावतीप्रमुखेषु विजयेषु ये तीर्थकरा उत्पद्यन्ते ते उत्तराहे सिंहासने सुरेन्द्ररभिषिच्यन्ते, ये पुनः शीतोदाया महानद्या दक्षिणतः पद्मादिषु विजयेषु तीर्थङ्करा उत्पद्यन्ते ते दक्षिणात्ये से सिंहासने सुरेन्द्रैरभिषिच्यन्ते, तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भरतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते, उत्तरदिग्भाविन्यां त्वतिरक्तकम्बलशिलायामरवतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते, सिंहासनानि च सर्वरत्नमयानि सर्वाण्यपि प्रत्येकं पञ्चधनुःशतायामविष्कम्भान्यर्धतृतीयधनुःशतबाहल्यानीति, ततः समधिकाभिषेकसिंहासनाभावादेव विदेहेषु चतुर्योऽधिकानां तीर्थक-IIX तामेककालमुत्पत्त्यभाव इति, जघन्यतः पुनर्दशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रत्येकमेकैकस्य सद्भावात् , भरतैरवतेषु हि जिनजन्मसमये महाविदेहेषु दिनसद्भावान्नाधिकानामुत्पत्तिरिति १४ ॥ इदानीं 'जिणगणहर'त्ति पञ्चदशमं द्वारमाह चुलसीइ १ पंचनवई २ विउत्तरं ३ सोलसोत्तरं ४ च सयं ५ । सत्तुत्तर ६ पणनउई ७ तेणउई O K RNSEX Jain Educatie Drunational For Private & Personal use only w w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy