________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ८५ ॥
Jain Education
अपि । अन्येऽप्यनेकशः केऽपि शिवं केऽपि दिवं ययुः ॥ १ ॥ जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गतः” । इति योगशास्त्रे त्रिषष्टिचरितेऽपि च, तथा सुविधिप्रभृतीनां शान्तिनाथान्तानामष्टौ च पितरः सनत्कुमारे-तृतीयदेवलोके, तथा कुन्थुप्रमुखाणां श्रीमहावीरान्तानामष्टौ पितरो माहेन्द्रे - चतुर्थदेवलोके गता बोद्धव्याः । इदानीं 'उक्किजहन्नेहिं संखा विहरंत तित्थनाहाणं ।' इति त्रयोदशं द्वारं गाथापूर्वार्धेन तथा 'जम्मसमएवि संखा उक्किट्ठजहन्निया तेसिं ।' इति चतुर्दशं च द्वारं गाथोत्तरार्धेन विवृणोति — सत्तरिसयमुक्कोसं जहन्न वीसा य दस य विहरंति । जम्मं पड़ उक्कोसं वीसं दस हुंति उज
हन्ना ।। ३२७ ।।
'सत्तरी' त्यादि, सप्तत्यधिकं शतमुत्कृष्टत एककालं तीर्थकृतां समयक्षेत्रे विहरति, पञ्चसु भरतेष्वेकैकस्य भावादैरवतेष्वपि पञ्चसु तावतां भावात् पञ्चसु च महाविदेहेषु प्रत्येकं द्वात्रिंशता विजयैः कलितेषु तीर्थकृतां षष्ट्यधिकशतस्य सद्भावादेतत्सङ्ख्यायाः सम्भव इति । तथा जघन्यतो विंशतिस्तीर्थकृत एककालं विहरमाणाः प्राप्यन्ते, तथाहि - जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्विभागेनैकैकस्य सद्भावात् द्वौ, अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रो, मिलिताश्चत्वारः, एवमपरद्वीपद्वयसम्ब न्धिमहाविदेह चतुष्टयेऽपि चत्वारञ्चत्वार इति पञ्च चतुष्का विंशतिः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, अन्ये तु सूरयो दशैव जघन्यतो विहरन्तीति मन्यन्ते, पञ्चानां महाविदेहानां पूर्वापरविदेहयोः प्रत्येकमेकैकस्य विहरतः सद्भावेन दशानामेव तीर्थकृतां प्राप्य - माणत्वात्, तथा जन्म प्रति-जन्माश्रित्योत्कृष्टत एककालं विहरमाणजिन (ना) विंशतिस्तीर्थकृतो भवन्ति, यतः सर्वेषामपि तीर्थकृतामर्धरात्रसमय एव जन्म, ततो महाविदेहेषु तीर्थकृज्जन्मसमये भरतैरावतक्षेत्रेषु दिवससद्भावेन तीर्थकृदुत्पत्त्यभावादेतावन्त एव प्राप्यन्ते, ननु
For Private & Personal Use Only
१२ जिनजननीज - नकगतिः
गा. ३२५
२६
१३ उत्कृ |ष्टेतरजिनाः
गा. ३२७
।। ८५ ।।
w.jainelibrary.org