SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ SARASHRSSSSSS वर्धमानस्वामिनस्त्रिशला ॥ तथा आदितीर्थकृत ऋषभस्वामिनः पिता नामिः, अजितजिनस्य जितशत्रुः, सम्भवस्वामिनो जितारिः, अमिनन्दनस्य संवरः, सुमतिनाथस्य मेघः, पद्मप्रभस्य धरः, सुपार्श्वस्य प्रतिष्ठः, चन्द्रप्रभस्य महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुप्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य वसुपूज्यः क्षत्रियः, विमलस्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भानुः, शांतिनाथस्य विश्वसेनः, कुन्थुनाथस्य शूरः, अरस्वामिनः सुदर्शनः, मल्लिजिनस्य कुम्भः, मुनिसुव्रतस्य सुमित्रः, नमिनाथस्य विजयः, अरिष्ठनेमेः समुद्रविजयः, पार्श्वनाथस्य राजा अश्वसेनः, वर्धवानस्वामिनश्च सिद्धार्थः क्षत्रिय इति ॥ इदानीं 'जिणजणणीजणयगईत्ति द्वादशं द्वारमाह अट्ठण्हं जणणीओ तित्थयराणं तु हुंति सिद्धाओ । अट्ठ य सणंकुमारे माहिदे अट्ट बोद्धव्वा ॥ ३२५ ॥ नागेसुं उसहपिया सेसाणं सत्त हुंति ईसाणे । अट्ट य सणंकुमारे माहिंदे अट्ट बो द्धव्वा ॥ ३२६ ॥ 'अढण्ह'मित्यादि गाथाद्वयं, अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो-मातरो भवन्ति सिद्धाः, तद्नु सुविध्यादीनां शान्तिनाथर्पयन्तानामष्टौ जनन्यः सनत्कुमारे-तृतीयदेवलोके गताः, तथा कुन्थुप्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो माहेन्द्रे-चतुर्थदेवलोके गता बोद्धव्या इति ॥ तथा नागेषु-नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्रीऋषभनाथपिता--नामिनामा गत इति शेषः, तथा शेषाणामजितनाथप्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने-द्वितीयदेवलोके, सैद्धान्तिकास्तु श्रीअजितस्वामिपितुर्जिवशत्रोर्मुक्तिगमनमाचक्षते, अनुयोगद्वारादौ तथैव भणनात्, श्रीहेमसूरिः-"राजा बाहुबलिः सूर्ययशाः सोमयशा प्र.सा.१५ ( Jain Education For Private & Personel Use Only wainelibrary.org Nil
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy