________________
प्रव० सा- रोद्धारे तत्त्वज्ञानवि०
११द्वारे जिनजनकजननी. नामानि गा. ३२०. ३२४
॥८४ ॥
सति सदेवमनुजासुरायां परिषदि ग्लानिपरिहारेण धर्मदेशनया-श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुर्विंशता देहसौगन्ध्यादिभिरतिशयैः पचत्रिंशता बुद्धवचनातिशेषैश्च तद्वद्यत इति ३१३-३१९ ॥ अथ 'जिणजणणीजणयनाम'त्येकादशं द्वारमाह
मरुदेवी १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ रामा ९ नंदा १० विण्हू ११ जया १२ सामा १३ ॥ ३२०॥ सुजसा १४ सुव्वय १५ अइरा १६ सिरी १७ देवी १८ पभावई य १९ । पउमावई १२० वप्पा २१ सिव २२ वम्मा २३ तिसला २४ इय ॥३२१ ॥ नाभी १ जियसत्तू या २, जियारि ३ संवरे ४ इय । मेहे ५ धरे ६ पइढे ७ य, महसेणे य खत्तिए ८॥ ३२२ ॥ सुग्गीवे ९ दढरहे १०विण्ह ११, वसुपुजे १२ य खत्तिए । कयवम्मा १३ सीहसेणे १४ य, भाणू १५ विस्ससेणे इय १६ ॥ ३२३ ।। सूरे १७ सुदंसणे १८ कुंभे १९, सुमित्त २० विजए २१ समुद्दविजए २२ य । राया य अस्ससेणे २३ सिद्धत्थे २४ ऽविय खत्तिए
॥ ३२४॥ 'मरुदेवी'त्यादिगाथापञ्चकं, भगवत ऋषभखामिनो माता मरुदेवी, अजितस्वामिनो विजया, सम्भवनाथस्य सेना, अभिनन्दनस्य सिद्धार्था, सुमतिनाथस्य मङ्गला, पद्मप्रभस्य सुसीमा, सुपार्श्वस्य पृथिवी, चन्द्रप्रभस्य लक्षणा, सुविधिस्वामिनो रामा, शीतलस्य नन्दा, |श्रेयांसस्य विष्णुः, वासुपूज्यस्य जया, विमलस्य श्यामा, अनन्तजिनस्य सुयशाः, धर्मनाथस्य सुव्रता, शान्तिनाथस्य अचिरा, कुन्थुनाथस्य श्रीः, अरस्वामिनो देवी, मल्लिजिनस्य प्रभावती, मुनिसुव्रतस्य पद्मावती, नमिनाथस्य वप्रा, अरिष्टनेमेः शिवा, पार्श्वनाथस्य वामा,
॥८४॥
JainEducal
For Private Personal use only
Tiw.jainelibrary.org