________________
'संघो' इत्यादिगाथासप्तकं व्याख्यातार्थ चैतत् , नवरं स्थविरबहुश्रुतयोर्गाथानुलोम्याद्व्यतिक्रमनिर्देशः, तथा तृतीयगाथायां भक्ति:आन्तरो बहुमानविशेषः पूजा-यथौचित्येन पुष्पफलाहारवस्त्रादिभिरुपचारः वर्णस्य-श्लाघायाः प्रकटनं-प्रकाशनं वर्जनं-परिहरणमवर्णवा-5 |दस्य-अश्लाघायाः आशातनाया-वक्ष्यमाणायाः परिहारो-वर्जनं एतदर्हदादीनां सप्तानां वात्सल्यं-वत्सलता । तथा षष्ठगाथायां वैयावृत्त्यं | -भक्तदानादिक्रियाद्वारेण गुर्वादीनां समाधिजननं तत् पुनर्दशधा पूर्वोक्तप्रकारेण, यद्वा शीलवताभ्यामेकमेव कारणं कृत्वा समाधिरिति विभिन्नमेव तीर्थकरगोत्रबन्धस्थानं विवक्ष्यते, ततो वैयावृत्त्यं दशधा गुर्वादीनां तथा तेषामेव क्रियाद्वारेण समाधिजननं-कार्यकरणद्वारेण स्वस्थतापादनमिति । तथा ऋषभनाथेन वर्धमानस्वामिना च पूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्यासेवितानि, मध्यमेषु पुनरजितस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनाप्येकं केनापि द्वे केनापि त्रीणि यावत् केनापि सर्वाण्यपि स्थानानि स्पृष्टानीति । एतच्च तीर्थकरनामकर्ममनुष्यगतावेव वर्तमानः पुरुषः स्त्री नपुंसको वा तीर्थकरभवात् पृष्ठतस्तृतीयभवं प्राप्य बद्धमारभते । आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्षतश्च बन्धस्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा ततः कथमुक्तं तीर्थकरभवात्प्राक् तृतीयभवे बद्ध्यत इति, नैष दोषः, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाचनारूपश्च, तत्र अनिकाचनारूपस्तृतीयभवात्प्राक्तरामपि भवति, जघन्यतोऽप्यन्तःसागरोपमकोटाकोटीप्रमाणत्वात् , निकाचनारूपस्तु तीर्थकरभवात्प्राक्तृतीयभव एव "तञ्च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भय| वओ तइयभवोसक्कइत्ताणं ॥ १॥ [ तच्च कथं वेद्यते? अग्लान्या धर्मदेशनादिभिः बध्यते तत्तु भगवतस्तृतीयभवमवष्वक्य ॥ १॥]-1 ति वचनप्रामाण्यात् , तत्र निकाचितमवन्ध्यफलं, इतरत्तु उभयथापि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावत्प्रवर्तते यावतीर्थकरभवे अपूर्वकरणस्य सङ्ख्येया भागाः, तत ऊर्द्ध व्यवच्छेदः, केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे
Jain Educati
R
o ला
nal
For Private Personal Use Only
S
ww.jainelibrary.org