SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ -प्रभूतं श्रुतं येषां ते बहुश्रुताः, तञ्च बहुश्रुतत्वमापेक्षिकं प्रतिपत्तव्यं, श्रुतं च त्रिधा-सूत्रतोऽर्थत उभयतश्च, तत्र सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधराः प्रधाना इति ६ विचित्रमनशनादिभेदभिन्नं तपो विद्यते येषां ते तपखिनः-सामान्यसाधवः ७ अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपखिनश्च अर्ह सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिनः, सूत्रे च 'बहुस्सुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकः, तेपु, 'एसिं'ति प्राकृतत्वात्सप्तम्यर्थे षष्ठी, तत एतेषु सप्तसु स्थानेषु वत्सलभावो वत्सलता-अनुरागः यथावस्थितगुणो कीर्तनं तदनुरूपोपचारलक्षणा तीर्थकरनामकर्मबन्धकारणमिति शेषः, तथा अभीक्ष्णं-अनवरतं ज्ञानोपयोगो-ज्ञाने व्याप्रियमाणता, इद| मष्टमं कारणं ८ । अथ द्वितीयगाथाव्याख्या-दर्शन-सम्यक्त्वं विनयो-ज्ञानादिविनयः, स च प्रागेवोक्तो वक्ष्यमाणो वा, दर्शनं च विनयश्च |दर्शनविनयं समाहारद्वन्द्वः तस्मिन् ९-१० आवश्यक-अवश्यकर्तव्यं प्रतिक्रमणादि तस्मिन् ११ शीलानि च व्रतानि च शीलवतं, अत्रापि समाहारद्वन्द्वः तस्मिन् , तन्त्र शीलानि-उत्तरगुणाःब्रतानि-मूलगुणाः तेषु निरतीचारः सन् तीर्थकरनामकर्म बनातीति क्रियायोगः, १२-१३ एतावता पञ्च कारणान्युक्तानि, तथा क्षणलवे तपसि त्यागे वैयावृत्त्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणं, तत्र क्षणलवग्रहणमशेषकालविशेपोपलक्षणं, क्षणलवादिषु कालविशेषेषु निरन्तर संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षणलवसमाधिः १४ तथा तपसि-बाह्याभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिस्तपःसमाधिः १५ त्यागो द्विधा-द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः प्रायोग्याणां च यतिजनेभ्यो दानं, भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां च यतिजनेभ्यो वितरणं, एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः १६ वैयावृत्त्यं दशविध, तद्यथा-आचार्यवैयावृत्त्यं १ उपाध्याय वैयावृत्त्यं २ स्थविरवैयावृत्त्यं ३ तपस्विवैयावृत्त्यं ४ ग्लानवैयावृत्त्यं ५ शैक्षकवैयावृत्त्यं ६ साधर्मिकवैयावृत्त्यं ७ कुलवैयावृत्त्य ८ गण 4-4-वासन lainEducation For Private Personal use only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy