________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥८२॥
पुप्फचूला २३ य ॥ ३०८ ॥ चंदण २४ सहिया उ पवत्तिणीओं चउवीसजिणवरिंदाणं । दुरियाई
हरंतु सया सत्ताणं भत्तिजुत्ताणं ॥ ३०९॥ 'बंभी'त्यादि गाथात्रयं, तत्र ब्राह्मी फल्गुः श्यामा अजिता तथा काश्यपी रतिः सोमा सुमना वारुणी सुयशा धारिणी धरिणी धरा पद्मा इति प्रथमगाथायां चतुर्दश प्रवर्तिनीनामानि । आर्या शिवा शुभा दामिनी च रक्षी च बन्धुमतीनामा पुष्पवती अनिला यक्षदत्ता तथा पुष्पचूला, चः समुच्चये सर्वत्र चन्दनासहिता तु एताः प्रवर्तिन्यश्चतुर्विशतेर्जिनेन्द्राणां दुरितानि हरन्तु सदा सत्त्वानां भक्तियुक्तानां ३०७-३०९ ।। इदानीं 'अरिहंतजणठाण'त्ति दशमं द्वार विवरीतुमाह
अरिहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सी ७ य । वच्छल्लया य एसिं अभिक्खनाणोवओगो ८ य ॥ ३१० ॥दसण ९ विणए १० आवस्सए य ११ सीलव्वए १२-१३ निरइयारो । खणलव १४ तव १५ चियाए १६ वेयावच्चे समाही १७ य ॥ ३११ ॥ अप्पुब्वनाण
गहणे १८ सुयभत्ती १९ पक्यणे पभावणया २०॥ एएहिं कारणेहिं तित्यरत्तं लहइ जीवो ॥३१२॥ 'अरिहंते'त्यादि गाथादशकं, अत्र प्रथमगाथायां अष्टौ कारणान्युक्तानि, द्वितीयगाथायां नव तृतीयगााथयां त्रीणि, तत्र प्रथमगाथाव्याख्या-अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्त:-तीर्थकराः १ अपगतसकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २ प्रवचनं-द्वादशाङ्गं तदुपयोगानन्यत्वात्सङ्घो वा प्रवचनं ३ गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवो-धर्मोपदेशादिदातारः ४ स्थविरा जातिश्रुतपर्यायभेदमिन्नाः, तत्र जातिस्थविराः षष्टिवर्षप्रमाणाः श्रुतस्थविराः समवायाङ्गधारिणः पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः ५ बहु
द्वारयोः जिनगणधरप्रवतिन्यः १० द्वारे २० स्थानकानि गा. ३०४
॥८२॥
Jain Education
For Private Personal Use Only
Kiwww.jainelibrary.org