SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ -% जेन तमाकारयति तदा व्रतसापेक्षत्वात् शब्दानुपातरूपानुपातावतीचाराविति तृतीयचतुर्थों, तथा बहिर्विवक्षितक्षेत्रात्युद्गलस्य-लेष्ठुकाष्ठशकलादेः प्रक्षेपणं प्रक्षेपः, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लेष्ट्वादीन् परेषां बोधनाय क्षिपति तदा लेष्ट्वादिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमनुपमईकस्याप्यतीचारो भवतीति पञ्चमः ५, इह चाद्यद्वयमव्यु त्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु मायावितया अतीचारतां यातीति, एते दोषा-अतीचारा देशावकाशिकव्रतस्य, अत्राहुलद्धाः -दिग्बतसङ्केपकरणं शेषत्रतसङ्केपकरणस्याप्युपलक्षणं द्रष्टव्यं तेषामपि सङ्केपस्यावश्यंकर्तव्यत्वात् प्रतिव्रतं च सङ्केपकरणस्य भिन्नत्र| तत्वे द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति, तत्र केचिदाचक्षते-दिग्वतसङ्केप एव देशावकाशिकतं, तदतीचाराणां दिग्व्रतानुसारितयैवोपलम्भात् , अत्रोच्यते, यथोपलक्षणतया शेषव्रतसङ्केपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतीचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिवतान्तरसङ्गेपकरणेषु वधबन्धादय एवातीचाराः, दिग्वतसङ्केपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽप्यतीचाराः स्युरिति भेदेन दर्शिताः, न च सर्वेष्वपि व्रतभेदेषु विशेषतोऽतीचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामद-t |र्शितत्वादिति ॥ २८४ ॥ अथ पौषधव्रतातीचारानाह–'अप्पडिले'यादि, अप्रत्युपेक्षिताप्रमार्जिताभ्यां दुष्प्रत्युपेक्षितदुष्प्रमार्जितयो रपि ग्रहणं, नत्रः कुत्सार्थस्यापि दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, ततोऽप्रत्युपेक्षितदुष्प्रत्युपेक्षितं शय्यासंस्तारकादीति प्रथमो-2 |ऽतीचारः, अप्रमार्जितदुष्प्रमार्जितं शय्यासंस्तारकादीति द्वितीयः, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितमुच्चारप्रश्रवणादिस्थण्डिलमिति तृतीयः, अप्र मार्जितदुष्प्रमार्जितमुच्चारप्रश्रवणादिस्थण्डिलमिति चतुर्थः, तत्र अप्रत्युपेक्षितं-चक्षुषाऽनिरीक्षितं दुष्प्रत्युपेक्षित-विभ्रान्तचेतसा निरीक्षितं प्र.सा.१४ अप्रमार्जितं-रजोहरणवस्वाञ्चलादिना न विशोधितं दुष्प्रमार्जितं-अविधिनाऽनुपयुक्ततया च रजोहरणादिना विशोधितं, इह च सामा EROct-01-10% JainEducational For Private & Personal Use Only Mr.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy