________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
11 12 11
Jain Education
६ द्वारे शिक्षात्रता
गा. २८३
२८६
सामायिकस्याकरणं यथाकथञ्चिद्वा करणं करणानन्तरमेव पारणं च यदुक्तं "काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न तं सुद्धं ॥ १ ॥” [ कृत्वा तत्क्षणमेव पारयेत् करोति वा यदृच्छया । अनवस्थितं सामायिकं अनादरात् तत् न शुद्धं ॥ १ ॥ ] इति पञ्चमः ५, इह चाद्यत्रयस्यानाभोगादिभिरेवातीचारत्वं, अन्यथा तु भङ्ग एव, इतरद्वयस्य तु प्रमादबहुलतयेति एते सा - ४) तीचाराः मायिकव्रते पञ्चातीचाराः ॥ २८३ ॥ इदानीं देशावका शिकवतातीचारानाह - 'आणयेत्यादि, दिग्व्रतविशेष एव देशावकाशिकत्रतं, |इयांस्तु विशेष:- दिग्नतं यावज्जीवं संवत्सरं चातुर्मासीं वा यावत् देशावकाशिकं तु दिवस प्रहरमुहूर्तादिपरिमाणं, तस्य च पश्चातीचाराः, तत्र 'आणयण' मित्यादि, आनयनं विवक्षितक्षेत्राद्वहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षिते क्षेत्रे प्रापणं प्रेष्येणेति द्रष्टव्यं स्वयं गमने हि मम व्रतभङ्गः स्यादितिबुद्ध्या प्रेष्येण यद्दा आनाययति सचेतनादिद्रव्यं तदाऽतीचार इति प्रथमः १, तथा प्रेषणं-प्रेष्यस्य विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं, स्वयं गमने हि मम व्रतभङ्गो भवति ततः स मा भूदितिबुद्ध्या स्वनियमितदेशात्परतोऽन्यं व्यापारयति | प्रयोजनकरणायेति, देशावका शिकवतं हि मा भूगमनागमनादिव्यापारजनित: प्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन (वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य प्रेष्यस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति द्वितीयः २, तथा शब्दस्यानुपातः शब्दानुपातः, स्वगृह वृत्तिप्राकारादिव्यवच्छिन्न भूप्रदेशकृताभिग्रहः समुत्पन्ने प्रयोजने व्रतभङ्गभयेन स्वयमगमनाद् वृत्तिप्राकारादिप्रत्यासन्नीभूय काशितादिशब्दं करोति आकारणीयानां कर्णेऽनुपातयति ते च तच्छब्दश्रवणात्तत्समीपमागच्छन्तीति ३, तथा रूपं - स्वशरीरसम्बन्धि उत्पन्न प्रयोजनः शब्दमनुच्चारयन्नाह्वानीयानां दृष्टावनुपातयति तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातोऽयं ४, अयमत्र परमार्थः - विवक्षितक्षेत्राद्वहिः स्थितं कश्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा स्वकीयशब्दश्रावणरूपदर्शनव्या
For Private & Personal Use Only
1106 11
jainelibrary.org