SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ क्खेवो ५ दोसा देसावगासस्स ॥२८४॥ अप्पडिलेहिय अप्पमज्जियं च सेन्जाइह थंडिलाणि ४ तहा। संमं च अणणुपालण५मइयारा पोसहे पंच ॥२८५॥ सच्चित्ते निक्खिवणं १ सचित्तपिहणं च २ अन्नववएसो ३ । मच्छरइयं च ४ कालाईयं ५ दोसाऽतिहिविभाए ॥ २८६॥ 'कायेत्यादि, प्रणहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्प्रणिधान-कायमनोवचनानां सावद्ये प्रवर्तनं, तत्र शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानं क्रोधलोभद्रोहाभिमानेादिभिः कार्यव्यासङ्गः सम्भ्रमश्च मनोदुष्प्रणिधानं वर्णसंस्काराभा-5 वोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानमिति त्रयोऽतीचाराः३, यदुक्तं-"अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो । हिंसा-5 भावेऽवि न सो कडसामइओ पमायाओ ॥ १॥ सामाइयं तु काउं घरचिंतं जो य चिंतए सड़ो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥२॥ कडसामइओ पुचि बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥ ३॥" [अनिरीक्ष्याप्रमृज्य स्थ-181 |ण्डिले स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥ १॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति |श्राद्धः । आर्त्तवशात्ततॊपगतो निरर्थकं तस्य सामायिकं ॥ २ ॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत सदा निरवयं वचनं अन्यथा सामायिकं न भवेत् ॥ ३ ॥] तथा स्मृतेः सामायिकविषयाया अकरणं, कोऽर्थः ?-सामायिकं मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वा प्रबलप्रमादाद्यदा न स्मरति तदाऽतीचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, यदभ्यधायि-"न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विहलं तयं नेयं ॥१॥" [न स्मरति प्रमादयुक्तो यः सामायिकं कदा तु कर्त्तव्यं । कृतमकृतं वा तस्य कृतमपि निष्फलमेव तकत् ॥१॥] इति चतुर्थः ४, तथाऽनवस्थितस्य करणं प्रतिनियतवेलायां Jan Educh H. ar For Private Personal use only T ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy