________________
प्रव० सा
रोद्धारे तत्त्वज्ञा नवि०
॥ ७७ ॥
Jain Education I
६ द्वारे
शिक्षात्रता
२८६
मचन्दनकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः, अत्रायं सम्प्रदायः - अतिरिक्तानि बहूनि तैलामलकादीनि यदि गृहाति तदा तलौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततः पूतरकाप्कायादिवधोऽधिकः स्यात्, न चैवं कल्पते, ततः को विधि: ?, तत्र स्नाने तावत् गृह एव स्नातव्यं, तदभावे तु तैलामलकैर्गृहे एव शिरो घर्षयित्वा तानि सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः तीचाराः स्नाति, पुष्पादिध्वपि येषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यं इति तृतीयः ३, तथा कन्दर्पः - कामस्तद्धेतुस्तत्प्रधानो वा ४ गा. २८३वचनप्रयोगोऽपि कन्दर्पः, श्रावकेण हि तादृशं न वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति चतुर्थः ४, तथाऽधिक्रियते दुर्गतावात्मा | अनेनेत्यधिकरणं - उदूखलघरट्टादि संयुक्तं उदूखलेन मुशलं हलेन फालं शकटेन युगं धनुषा शरा इत्यादि एवमेकमधिकरणमधिकरणान्तरेण युक्तं संयुतं युक्ताधिकरणं, इह च श्रावकेण संयुक्तमधिकरणं न धारणीयं, तथा च सति हिंसकः कश्चित्संयुक्तमधिकरणमाददीत, | वियुक्ताधिकरणतायां तु सुखेनैव परः प्रतिषेद्धुं शक्यते, इह च निषिद्धस्यानर्थदण्डस्य अपध्यानाचरितप्रमादाचरित हिंस्रप्रदानपापकर्मोप| देशभेदत्वेन चतुर्विधत्वात्तद्विरतिश्चतुर्धा, तत्र अपध्यानाचरितविरतौ कौत्कुच्यादिपञ्चकस्याना भोगादिनाऽनुचिन्तनमतीचारः, आकुट्टया पुनः प्रवृत्तौ भङ्ग एव, प्रमादाचरितविरतौ तु कौत्कुच्यकन्दर्पभोगोपभोगातिरेकाणां त्रयाणामपि करणमतीचारः, युक्ताधिकरणं तु हिंस्रप्रदानविरते:, मौखर्यं तु पापकर्मोपदेशविरतेः इति ५ एतेऽतीचारा अनर्थदण्डवते ॥ २८२ ॥ उक्ता गुणत्रतातीचाराः, अथ शिक्षाव्रतातीचारावसरः, तत्रापि सामायिकस्य तावदतीचारानाह
काय १ मणो २ वयणाणं ३ दुप्पणिहाणं सईअकरणं च ४ । अणवद्वियकरणं चिय सामइए पंच अयारा ।। २८३ ।। आणयणं १ पेसवणं २ सद्दणुवाओ य ३ रूवअणुवाओ ४ । बहिपोग्गलप
For Private & Personal Use Only
॥ ७७ ॥
Jainelibrary.org