________________
Jain Educatio
नस्य तुच्छौषधिभक्षणमतीचारः, अथवाऽत्यन्तावद्य भीरुतयाऽचित्ताहारता ऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचित्तस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्ति सम्पादनासमर्था अप्यौषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतीचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रजनीभोजनमांसादिनिवृत्तिव्रतेष्वनाभोगातिक्रमादिभिरतीचारा भावनीयाः, एते पञ्च दोषा-अतीचारा उपभोगपरिभोगत्रते इति, तत्त्वार्थे तु सचित्तः सचित्तसम्बद्धः सम्मिश्रोऽभिषवो दुष्पकाहारश्वेत्येवं पञ्चा तीचाराः प्रतिपादिताः, तत्र सचित्तसचित्तसम्बद्ध दुष्पकाहारास्त्रयः पूर्ववत्, संमिश्रस्तु सचित्तेन मिश्रः - शबल आहारः, यथा आर्द्रकदाडिमबीजकरवन्दकादिमिश्रः पूरणादिस्तिलमिश्रो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतीचारः, यद्वा सम्भवत्स चित्तावयवस्या - | पक्ककणिक्कादेः पिष्टत्वादिना अचेतनमितिबुद्ध्या आहारः सम्मिश्राहारः, व्रतसापेक्षत्वादृतीचारः, अभिषवः पुनरनेकद्रव्यसन्धाननिष्पन्नः सुरासौवीरकादिर्मासप्रकारखण्डादिर्वा सुरामध्वाद्यभिस्पन्दिवृक्षद्रव्योपयोगो वा अयमपि सावद्याहारवर्जकस्यानाभोगा विक्रमादिनाऽतीचार इति ॥ २८१ ॥ अथानर्थदण्डविरतिलक्षणस्य तृतीयगुणत्र तस्यातीचारानाह - 'कुक्कुई 'त्यादि, कुदिति कुत्सायां निपातः, निपा| तानामानन्त्यात् कुत्सितं कुभ्वति भ्रू नयनोष्ठनासाकरचरणवद्नविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यं - अनेकप्रकारं भाण्डाना - मिव विक्रियाकरणं, अथवा कुत्सितः कुचः कुत्कुचः - सङ्कोचादिक्रियावान् तस्य भावः कौतूकुच्यं, अत्र च येन परो हसति स्वस्य च लाघवं | सम्पद्यते न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातीचार इति प्रथमः १, तथा मुखमस्यास्तीति मुखर:- अनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्य-धार्थप्रायमसभ्यासम्बद्धबहुप्रलापित्वं, अतीचारत्वं चास्य पापोपदेशसम्भवादिति द्वितीयः २, तथा भोगः - सकृद्भोग्य आहारमाल्यादिः उपभोगः - पुनःपुनर्भोग्य आच्छादनवनितादिः तयोरतिरेक:- आधिक्यं, इह च स्नानपानभोजन कुङ्कु
ational
For Private & Personal Use Only
www.jainelibrary.org