________________
रोद्धारे तत्त्वज्ञानवि०
&ा निरवद्यत्वात्तद्भक्षणस्येति, सत्यं, किन्तु तृतीयचतुर्थावतीचारौ सचित्तकन्दफलादिविषयौ प्रथमद्वितीयौ तु शाल्याद्यौषधिविषयाविति विष-IIद्वारे | यकृतो भेदः, अत एवावश्यकसूत्रे 'अपउलिओसहिभक्खणया' इत्याद्युक्तं, अथवा कणिक्कादेरपकतया सम्भवत्सचित्तावयवस्य पिष्टत्वादि- गुणत्रतानाऽचेतनमिदमिति बुद्ध्या भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पकं-मन्दपकं तच्चार्धस्विन्नपृथुकतण्डुलयवगोधूमस्थूलमण्डकककटुक- तीचारा फलादि ऐहिकप्रत्यवायकारि यावता चांशेन सचेतनं तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पकत्वेन गा.२८०चाचेतनमिति बुद्ध्या भुखानस्यातीचार इति द्वितीयः २, तथा सह चित्तेन-चेतनया वर्तते यत्तत्सचित्तं-आहारवस्तु कन्दमूलफलादि
२८२ पृथ्वीकायादि वा, इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतीचारभणनं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ सत्यां द्रष्टव्यं, यद्वाऽर्धकुट्टितचिञ्चिणीपत्रादि अपरिणतोष्णोदकं वा उपभुखानस्यायमतीचारो द्रष्टव्य इति तृतीयः ३, तथा सचित्तेन प्रतिबद्धं-सम्बद्धं सचेतनवृक्षादिसम्बद्ध गुन्दादि पक्कफलादि वा सचित्तान्तर्बीजं खजूराम्रादि, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतीचारश्चतुर्थः, अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्कं खजूंरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धं भक्षयतोऽतीचारः४, तथा तुच्छा:-असारा औषधयः-अनिष्पन्नकोमलमुगादिफलीरूपाः तासां भक्षणं पञ्चमोऽतीचारः५, ननु तुच्छौषधयोऽपक्का दुष्पक्काः सम्यक्पक्का वा स्युः?, यद्याद्यौ पक्षौ तदा प्रथमद्वितीयातीचाराभ्यामेवास्योक्तत्वात्पौनरुक्त्यप्रसङ्गः, अथ सम्यक्पकास्तदा निरवद्यत्वादेव तद्भक्षणस्य काऽतीचारतेति ?, सत्यं, किन्तु यथाऽपक्कदुष्पकयोः सचित्तसचित्तप्रतिबद्धयोश्च सचित्तत्वे समानेऽप्यौषध्यनौषधिकृतो विशेषः तथाऽत्रापि सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्व- ॥७६॥ तुच्छत्वकृतो विशेषोऽवगन्तव्यः, तत्र च कोमलमुगादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव (वा) अनाभोगातिक्रमादिना भुञ्जाa l
For Private & Personalise Only
Jain Education
jainelibrary.org