SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education केनापि स्वकीयं क्षेत्रं तत्क्षेत्रप्रत्यासन्नमेव दीयते, ततोऽसौ स्वकीयनियमभङ्गभयेन तत्परदत्तं क्षेत्रं स्वकीयक्षेत्रेण सह योजयति यथैकमेव द्वाभ्यामपि ताभ्यां क्षेत्रं भवति एवं गृहादिकमपि परदत्तं वृत्तिभित्त्याद्यपनयनेन स्वकीयगृहादिनै कीकरोतीत्यतीचारः प्रथमः १, तथा रूप्यकनकादिसङ्ख्यात्रतकाले चतुर्मासादिकालावधिना यत्परिमाणं गृहीतं तावतोऽधिकं जातं व्यवहारादिना ततो यथा मे नियमभङ्गो न भवति न. चेदमन्यत्र कुत्रापि याति नियमावधौ च समाप्ते अहमेव प्रहीष्याम्येतदितिबुद्ध्या स्वजनेभ्यो ददत् व्रतसापेक्षत्वादतिचरति व्रतमिति द्वितीयः २, तथा धनधान्यादि परगृहे बध्नाति - स्वीकृत्य मुञ्चति यावन्निजनियमपर्यन्तः, तत्र धनं-गणिमधरिममेयपरीक्ष्य (परिच्छेद्य) लक्षणं, यदाहु:-- "गणिमं जाईफलफोफलाइ धरिमं तु कुंकुमगुडाई । मेयं चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्जं ॥ १ ॥” धान्यं सप्तदशविधं, यदाहु:-- “ श्रीहिर्यवो मसूरो गोधूमो मुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥ १ ॥ किव कलायकुलत्थौ सणसप्तदशानि धान्यानि ॥” इति, धनं च धान्यं च धनधान्ये ते आदी यस्य तद्धनधान्यादि, तत्र कृतधनधान्यादिपरिमाणः कोऽपि पूर्वलभ्यमन्यद्वा धनादिकं कस्यापि पार्श्वाल्लभ्यमानमिदानीमेव यदि स्वगृह एवैतत्समानयामि तदा नियमभङ्गो मे भवति अमेतने तु विक्रीतादौ सति पूर्णे वा नियमावधौ स्वगृहे समानेष्यामीतिबुद्ध्या वचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यन्कारदानादिखरूपेण वा बन्धनेन स्वीकृत्य यदा तदीयगृह एव तद्व्यवस्थापयति तदा तृतीयोऽतीचारः ३ ॥ २७८ ॥ तथा 'दुपये'त्यादि, द्वे पढ़े येषां तानि द्विपदानि - कलत्रावरुद्धदासीदासकर्मकरपदात्यादीनि हंसमयूरकुक्कुटशुकसारिकाचकोरपारापतप्रभृतीनि च चत्वारि पदानि येषां तानि चतुष्पदानि - गोमहिषमेषाविककरभरासभतुरगहस्त्यादीनि तानि यद्गर्भं ग्राहयति सोऽतीचार इति सम्बन्धः, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च विवक्षित संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति त For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy