________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
।। ७५ ।।
Jain Education
द्वयात्कियत्यपि काले गते गर्भ ग्राहयतो गर्भस्थद्विपदादिभावेन बहिश्च तदभावेन कथञ्चिद् व्रतभङ्गाभङ्गरूपोऽतीचार इति चतुर्थः ४, तथा कुप्यस्य- रूप्यसुवर्णव्यतिरिक्तस्य कांस्यलोहताम्रत्रपुसीसकवंशविकारकटमश्चिकामध्चकमन्थानकतूलिकारथशकटहलमृद्भाण्डप्रभृतिकस्य गृहोपकरणकलापस्य सङ्ख्या- परिगणनं तामल्पधनां बहुधनां करोति कोऽर्थः ? -स्थालादीनां कथञ्चिदधिकत्वे प्रतिपन्ननियमस्य जाते सत्यल्पमूल्यं स्थालाद्यपरेणोत्कलितेन स्थालादिना मेलयित्वा बहुमूल्यं करोति यथा नियमो न भज्यत इति पर्यायान्तरकरणेन सापूरणात्स्वाभाविकसङ्ख्याबाधनाञ्च पञ्चमोऽतीचारः ५, एते पञ्चमत्रते दोषा - अतीचारा इति ।। २७९ ।। उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातीचाराः अथ गुणत्रतातीचाराणामवसरः, तत्रापि प्रथमगुणत्रतस्य दिग्विरतिलक्षणस्यातीचारानाह
तिरियं अहो य उहुं दिसिवयसंखाअइक्कमे तिन्नि । दिसिवयदोसा तह सइविम्हरणं वित्तबुड्डी य ॥ २८० ॥ अप्पक्कं दुप्पक्कं सच्चित्तं तह सचित्तपडिबद्धं । तुच्छोसहिभक्खणयं दोसा उवभोगपरिभोगे ॥ २८९ ॥ कुक्कुइयं मोहरियं भोगुवभोगाइरेग कंदप्पा । जुत्ताहिगरणमेए अइयाराणत्थदंडव ॥ २८२ ॥
'तिरिय 'मित्यादि, तिर्यगधश्च चः समुच्चये भिन्नक्रमः ऊर्ध्व चेत्येवं योज्यः, दिग्व्रतस्य सङ्ख्यातिक्रमे त्रयो दिग्वते दोषाः - अतीचाराः तथा स्मृतिविस्मरणं चतुर्थः, क्षेत्रवृद्धिश्च पञ्चमः, तत्र तिर्यक्पूर्वादिदिक्षु अधः - अधोग्रामभूमिगृहकूपादिषु ऊर्ध्व - पर्वततरुशिखरादिषु योऽसौ नियमितः प्रदेशस्तस्य व्यतिक्रमः ३ एते त्रयोऽतीचाराः, एते चानाभोगातिक्रमव्यतिक्रमादिभिरेवातीचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्ग एव, अतिक्रमादीनां च स्वरूपं - "आहाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइकम गहिए तइएयरो
nal
For Private & Personal Use Only
६ द्वारे
गुणत्रतातीचाराः
गा. २८०
२८२
॥ ७५ ॥
v.jainelibrary.org