________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
11 68 11
Jain Education
लिङ्गनादि परदावर्जिनोऽपि परदारेषु निधुवनं परिहरन्ति नालिङ्गनादीति कथञ्चिद् व्रतसापेक्षत्वादतीचाराविति ४ तथा परेषां - - न्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहो - विवाहकरणं कन्याफल लिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं, इदं च स्वकलत्र सन्तोपवता स्वकलत्रात् परदारवर्जकेन तु स्वकलनवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, मैथुनत्रतकारी च मन्यते मया विवाह एवायं विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतीचारः, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिध्यादृष्टेश्व भद्रकावस्थायामनुप्रहार्थं व्रतदाने सा सम्भवति, ननु परविवाहवत् स्वापत्यविवाहनेऽपि समान एवायं दोषः, सत्यमेतत् परं यदि स्वकन्यादीनां विवाहो न कार्यते तदा स्वच्छन्दचारित्वं भवेत् ततः शासनोपघातः स्यात्, विहिते तु विवाहे पत्यादिनियन्त्रितत्वेन न तथा भवतीति, परेऽप्याहुः - " पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातत्र्यमर्हति ॥ १ ॥” यस्तु यादवशिरोमणेः कृष्णस्य चेटकमहाराजस्य च निजापत्येष्वपि विवाह नियमः श्रूयते स चिन्तकान्तरसद्भावे सति द्रष्टव्य इति ५, मध्ये स्थितस्य 'चउत्थवए' इति पदयात्रापि सम्बन्धाच्चतुर्थत्रते एते पञ्चातीचाराः ॥ २७७ ॥ अथ पञ्चमत्रतातीचारानाह - ' जोएई'त्यादिगाथाद्वयं धनधान्यादिवस्तुरूपनव | विधपरिग्रहपरिमाणस्वरूपे पश्चमत्रतेऽतीचारा विज्ञेयाः, यथा 'जोएई'त्यादि, योजयति-क्षेत्रवास्तूनि एकत्र मीलयतीति, तत्र क्षेत्रंधान्योत्पत्तिभूमिः, तत् त्रिविधं-सेतुकेतूभयभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिध्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यशस्त्रं, उभयक्षेत्रं तूभयजलनिष्पाद्यशस्यं, वास्तु- गृहहट्टादि ग्रामनगरादि च तत्र गृहं त्रिविधं - खातं - भूमिगृहादि उच्छ्रितं - प्रासादादि खातोच्छ्रितं - भूमि गृहस्योपरि गृहादिसन्निवेशः क्षेत्राणि च वास्तूनि च क्षेत्रवास्तूनि तान्येकत्र योजयति, गृहीतपरिग्रहत्रतेन हि केनचिदेकं क्षेत्रं परिगृहीतं, तस्य
For Private & Personal Use Only
६ गृह्यतिचारद्वारे
अणुव्रतातिचाराः ५-५
॥ ७४ ॥
w.jainelibrary.org