________________
-00-34
54-
नया परस्य भर्तुरभावेनापरदारत्वादभङ्गः लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतीचारः, शेषास्तु त्रयोऽतीचारा द्वयोरपि भवेयुः, त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् , अन्यविवाहनादयस्तु त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति, पञ्च वा, कथं ?, आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपल्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य |
परिभुजानाया अतीचारः द्वितीयस्तु अतिक्रमादिना परपुरुषमभिसरन्त्या अतीचारः, ब्रह्मचारिण्या वा स्वपतिमतिक्रमादिना अभिसरन्त्या * अतीचारः, शेषास्त्रयः स्त्रियाः पूर्ववदिति । तथा कामे-मदने तीवो-गाढोऽभिलाष:-परित्यक्तान्यसकलव्यापारस्य तदेकाध्यवसायता, रम
णीमुखकमलकक्षोपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां यावन्निश्चलो मृत इवास्ते चटक इव चटकायां मुहुर्मुहुः कामिन्यामारोहतीति तृतीयः ३, तथा अनङ्गः-कामः, स च पुंसः स्त्रीपुंनपुंसकसेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात् तथा स्त्रियोऽपि पुरुषनपुंसकस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा तेन तस्मिन् वा क्रीडा-रमणमनङ्गक्रीडा स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुष्णाति केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारैश्च मोहनीयकर्मावेशात्तथा क्रीडति यथा प्रबलो रागः समुज्जम्भते, अथवा अङ्ग-देहावयवो मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तान्यनङ्गानि-कुचकक्षो. रुवदनादीनि तेषु क्रीडा, इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा यापनामात्रार्थ खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां कामतीव्राभिलाषानङ्गक्रीडे अर्थतः प्रतिषिद्धे, तत्सेवने च न कश्चिद् गुणः प्रत्युत राजयक्ष्मादयो दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गः निजनियमाबाधनाचाभङ्ग इत्येतावतीचारौ, अन्ये त्वन्यथाऽतीचारद्वयमपि भावयन्ति-स हि स्वदारसंतोषी निधुवनमेव मया प्रत्याख्यातमिति खकल्पनया वेश्यादौ तत्परिहरति, ना
-
-
--
---
Jain Education
r
onal
For Private & Personel Use Only
jainelibrary.org
-