________________
गृ ह्यतिचारद्वारे अणुव्रता|तिचाराः
DI
प्रव० सा- रमल्पमुच्यते, ततः इत्वरं-अल्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा, इत्वरकालं परिग्रहो यस्याः सा तथा, कालशब्दलोपोऽत्र रोद्धारे दृश्यः, अथवा इत्वरी-प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा-कञ्चित्कालं भाटीप्रदानादिना संगृहीता इत्वरी| तत्त्वज्ञा- चासौ परिप्रहा च सा तथा, पुंवद्भावश्चात्र कार्यः, तां यद्भुङ्क्ते-सेवते गृहीतचतुर्थव्रतः सोऽतीचारः, इयमत्र भावना-भाटीप्रदा-| नवि० । नादित्वरकालं स्वीकारेण स्वकलत्रीकृतस्य वेश्यां सेवमानस्य स्वमतिकल्पनया खदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालं परिग्रहाच
वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादित्वरपरिग्रहां सेवमानस्य प्रथमोऽतीचारः १, तथा अपरिगृहीता-अगृहीतान्यसत्कभाटि॥७३॥
दावेश्या प्रोषितभर्तृका स्वैरिणी कुलाङ्गना वाऽनाथा तां 'थिय'ति स्त्रियं स्थितां वा, एवंविधां सती यो भुते सोऽती चार इति सण्टङ्कः,
अयं चानाभोगादिना अतिक्रमादिना वा अतीचारः २, एतौ च द्वावप्यतीचारौ स्वदारसन्तोषिण एव न तु परदारवर्जकस्य इत्वरपरिग्रहाया वेश्यात्वेन अपरिगृहीतायास्त्वनाथतयैव परदारत्वाभावात् शेषास्त्वतीचारा द्वयोरपीति हरिभद्रसूरिमतं, एतदेव च सूत्रानुपाति,
यदाह-"सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियव्व"त्ति, अन्ये त्वाहुः-इत्वरपरिग्रहासेवनं स्वदारसन्तोषिणोऽती* चारो यथा पूर्व व्याख्यातस्तथैव, अपरिग्रहासेवनं तु परदारवर्जिनोऽतीचारः, अपरिग्रहा हि वेश्या, यदा च तां गृहीतान्यसत्कभाटि
कामभिगच्छति तदा परदारगमनदोषसम्भवात् कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाञ्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतीचारः इति द्वितीयः, परे पुनरन्यथा प्राहुर्यथा-"परदारवजिणो पंच होति तिन्नि उ सदारसंतुट्टे । इत्थीए तिन्नि पंच व भङ्गविगप्पेहिं अइयारा ॥ १॥ | इयमत्र भावना-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिणो भङ्गः, कथंचित्परदारत्वात्तस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, अपरिगृहीतायामनाथकुलाङ्गनायां यद्गमनं परदारवर्जिनः सोऽप्यतीचारः तत्कल्प
SUNDA
॥७३॥
Jain Education in
For Private 8 Personal use only
Jainelibrary.org