SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ काकर्तरिकाघर्घरिकादीनि तेषामर्पणं विक्रयणं वा उपचाराञ्चौरप्रयोगः ततो जातश्चौरप्रयोगजोऽतीचारः, प्राकृतत्वाच्च नपुंसकत्वं, अत्र यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नस्य व्रतस्य चौरप्रयोगो व्रतभङ्ग एव तथापि क्रिमधुना यूयं निर्व्यापारास्तिष्ठय ? यदि भवतां भोजनादिकं नास्ति तदाऽहं तद्ददामि भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं तं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः स्वयं च चौर्यव्यापारं परिहरतो व्रतसापेक्षस्यासावतीचार इति द्वितीयः २, तथा मीयतेऽनेनेति मानं-कुडवपलहस्तादि तुला तु प्रसिद्धैव मानं च तुला च मानतुले कूटे च ते मानतुले च कूटमानतुले तयोः करणं-हीनेन मानेन ददाति अधिकेन मानेन च रहाति एवं तुलयाऽपीति तृतीयः ३, तथा रिपो:-द्विषः सम्बन्धिनि राज्ये-नियमिते भूमिभागे कटके वा व्यवहारो-व्यवस्थातिक्रमण व्यवहरणं, इह च यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य "सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जाऽविरई अदिन्नदाणे सरूवं तं ॥ १॥" [स्वाम्यदत्तं जीवादत्तं तीर्थकरेण तथैव गुरुभिरदत्तं । एतस्माद् याऽविरतिः अद-|| त्तादानस्यैतत् स्वरूपं ।। १॥] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यव्यवहारकारिणां च चौर्यदण्डयोगेनादत्तादानवतभङ्ग एव तथापि विद्वेषिनृपतिभूमौ मया वाणिज्यमेव क्रियते न चौर्यमिति भावनया व्रतसापेक्षत्वालोके च चौरोऽयमिति व्यपदेशाभावादतीचारतेति चतुर्थः ४, तथा सदृशयुतिः-सदृशानां वस्तूनां युतिः-मिश्रीकरणं यथा त्रीहिषु पलजिकान् घृते वसादि तैले मूत्रादि सिक-|| वादि अच्छधवलपण्डिकायां जात्यसुवर्गरूप्ययोयुक्तिसुवर्णरूप्ये मिश्रयित्वा व्यवहरतीति पञ्चमः, अत्र च कूटमानतुलादिव्यवहारः सदृशयुतिश्च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं खात्रखननादिकमेव चौर्य प्रतिषिद्धं मया वणिक्कलैव कृतेति भावनया व्रतरक्षणोदतवादतीचारता ५, इति तृतीयव्रतेऽतीचाराः ॥ २७६ ॥ इदानी चतुर्थव्रतातीचारानाह-'भुंजईत्यादि, इत्व Jain Education a l For Private Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy