SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जिनाभिहितम् ॥ १॥ एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥२॥” इत्यर्थः १, काङ्क्षा-अन्यान्यदर्शनग्रहः, सापि सर्वविषया देशविषया च,तत्र सर्वविषया सर्वपाखण्डिधर्माकाङ्कारूपा, यथा परिव्राजकभौतिकब्राह्मणादयोऽपि विषयसुखजुषोऽपि परलोकसुखेन युज्यन्त इति साधीयानेव तदीयोऽपि धर्मः, देशकाङ्क्षा त्वेकादिदर्शनविषया, यथा सुगतेन भगवता भिक्षुणामक्लेशकारी धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनादिषु सुखानुभवद्वारेण, यदाह-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥१॥” इति, एतदपि घटमानकमेव, एवं च काङ्गापि परमार्थतो भगवत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीत्यतीचारः २, विचिकित्सा-फलं प्रति सन्देहः, स च सत्यपि प्रमाणयुक्त्यागमोपपन्ने सर्वज्ञधर्मेऽस्य दुष्करतरस्य महतस्तपःक्लेशस्य मया विधीयमानस्य सिकताकणकवलनवनिरास्वादस्यायत्यां फलसम्पत् | काचिद्भविष्यति उत क्लेशमात्रमेवेदं निर्जराफलविकलमिति, द्विधाऽपि हि क्रिया वीक्ष्यन्ते सफला अफलाश्च कृषीवलादीनां अत इयमपि | क्रिया तथा सम्भाव्यते, न त्वेवं चिन्तयति, यथा-"पुज्वपुरिसा · जहोदियमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धिइसंघयण-13 विरहओ न तहमेसि फलं ॥१॥" [पूर्वपुरुषा यथोदितमार्गचराः घटते तेषां फलयोगः अस्मासु च धृतिसंहननविरहतो न तथैषां फलं ॥१॥] इति, एषाऽपि विचिकित्सा क्रियमाणा भगवद्वचनानाश्वासरूपत्वेन सम्यक्त्वस्य दूषकत्वादतीचारः, न चेयं शङ्कातो न भिद्यते | ४ इति वाच्यं, यतः शङ्का सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाफलविषयेति भेदः, भक्तु वा एवं शङ्का, विचिकित्सा 8 वन्यथा एव व्याख्यायते-विचिकित्सा-निन्दा, सा च सदाचारसाधुविषया, यथाऽस्नानेन प्रस्वेदजलक्लिन्नमलत्वाद् दुर्गन्धिवपुष एते | महानुभावाः, को दोषः स्याद् यदि प्रासुकजलेनाङ्गप्रक्षालनं कुरिन्निति, एवंरूपाऽपि विचिकित्सा विधीयमाना भगवद्धर्मानाश्वासरूपत्वात्र Jan Education IRonal For Private & Personal Use Only Nejainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy