________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
AMROSAROKA
|६ गृह्यति
चारद्वारे सम्यक्त्वातिचाराः५
॥६९॥
द्वादश भवन्तीति, अथ वीर्यत्रिकातीचारानाह–'तिगं तु विरिअस्स'त्ति वीर्यस्य त्रिकं पुनर्मनोवाकायाः सूचकत्वात्सूत्रस्य मनोवाकायव्यापाराः ते च पापप्रयुक्ताः-पापविषये प्रवृत्ताः सन्तो वीर्यत्रिकातीचारा भवन्तीति ॥ 'पण सम्म'त्ति व्याख्यायते
संका कंखा य तहा वितिगिच्छा अन्नतित्थियपसंसा।परतिथिओवसेवणमइयारा पंच सम्मत्ते ॥२७३॥ __ 'संके'यादि, शङ्का काङ्खा तथा विचिकित्सा अन्यतीर्थिकप्रशंसा परतीर्थिकोपसेवनं च अतीचाराः पञ्च सम्यक्त्वे भवन्तीति । तत्र शङ्का-भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः-किमेवं स्यान्नैवमिति, यदाहुः"संसयकरणं सङ्के"ति, सा च शङ्का द्विविधा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया जीवाद्यन्यतमपदार्थैकदेशगोचरेत्यर्थः, यथाऽस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा ? सप्रदेशोऽप्रदेशो वेति, सर्वशङ्का सर्वविषया यथाऽस्ति धर्मो नास्ति वेति, इयं च द्विधाऽपि शङ्का भगवदर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतीचारः, केवलाऽऽगमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतृकत्वान्न सन्देग्धुं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवशात् कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा-कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदयेणं च ॥ १॥ हेऊदाहरणासंभवे य सइ सुटु जं न बुझेजा। सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जिअरागदोसमोहा य नन्नहावाइणो
तेणं ॥ ३ ॥ [कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥१॥ हेतूदाहरणासंभवे च सति का सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् ॥२॥ अनुपकृतपरानुग्रहपरायणा यत् जिना युगप्रवराः जितरागC द्वेषमोहाश्च नान्यथावादिनस्तेन ॥ ३॥] यथा वा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं
ROSCOACK
॥ ८९
Jain Education I
d ea
For Private & Personel Use Only
jainelibrary.org