________________
9454545555555
मानवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयं २ । तथा धर्म:-क्षमादिदशलक्षणः तस्मादनपेतं धर्म्य, तच्च सर्वज्ञाऽऽज्ञानुचिन्तनं १ राग
द्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनं २ ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणं ३ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकं ४, जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यं ३ । तथा शोधयत्यष्टप्रकार कर्ममलं शुचं वा-शोक कुमयतिअपनयतीति निरुक्तविधिना शुक्लं, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपं ४ अवधा|| सम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं ४ । अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात् , नातरौद्रे बन्धहेतुत्वादिति ११ । 'उस्सग्गोऽविय'त्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यान्नपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यं, सोऽतीचारविशुद्ध्यर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुत्त्यं १२ । “अभितरो तवो होइ'त्ति इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनमिलक्ष्यत्वात् तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वात् मोक्षावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वाभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाचाभ्यन्तरं तपो भवतीति, एतेषां च कथं अतीचारः संभवतीति आह–'सम्मेत्यादि, एतेषामनशनादीनां द्वादशानां तपोभेदानां सम्यगकरणे-विपरीततया न्यूनाधिक्येन वाऽयथावस्थितानुष्ठानरूपे अतीचारा अपि
१ दशधा प्रायश्चित्तवर्णने उत्सर्गशब्देन चेष्टाभिभवभेदेन द्विविधः कायोत्सर्गों वर्णितो मौनध्यानादिक्रियाव्यतिरिक्तक्रियात्यागमधिकृत्य, अयं तु शरीरोपाधिगणादिवस्तून्याश्रित्येति स्पष्टो मेदो वा, अतिरिक्तोपधेस्त्यागो व्यावमौदर्य अनेषणीयत्यागो विवेकः कषायत्यागः कषायसंलीनता, अपश्चिमाराधनायै वा गणादित्यागोऽयं ।
JainEducation
For Private
Personal use only
RPw.jainelibrary.org