SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ६८ ॥ Jain Education, संपायणमेस भावत्थो" ॥१॥ [ वैयावृत्त्यं व्यावृतभाव इह धर्मसाधननिमित्तं अन्नादीनां विधिना संपादनमेष भावार्थ: ||१|| ] ९॥ ' तहेव | सज्झाओ'त्ति सुष्ठु आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायः - अध्ययनं स्वाध्यायः, स च पञ्चधा - वाचनापृच्छनापरावर्तनानुप्रेक्षाधर्मकथाभेदात्, तत्र वाचना- शिष्याध्यापनं गृहीतवाचनेनापि संशयोत्पत्तौ पुनः पृष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः पृच्छना, पृच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परावर्तना, सूत्रस्य घोषादिविशुद्धं गणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतोऽनुप्रेक्षणं, ग्रन्थार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा चिन्तनिकेत्यर्थः एवमभ्यस्तश्रुतेन धर्मकथा कर्तव्येति, धर्मस्य - श्रुतरूपस्य कथा - व्याख्या धर्मकथेति १० ॥ 'झाण' मिति ध्यायते - चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानं - अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानं, यदाहुः - " अंतोमुहुत्तमेत्तं चित्तावत्थाणमे गवत्थुमि । छ मत्थाणं झाणं जोगनिरोहो जिणाणं तु" ॥ १ ॥ [ अन्तर्मुहूर्तमात्रं चित्तस्यैकवस्तुनि अवस्थानं छद्मस्थानां ध्यानं जिनानां तु योगनिरोधः ॥ १ ॥ ] तच्चतुर्धा - आर्त्तरौद्रधर्म्यशुक्रभेदात्, तत्र ऋतं दुःखं तस्य | निमित्तं तत्र वा भवं ऋते वा - पीडिते प्राणिनि भवमार्त्त, तचामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसा| दिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविनां वाऽसम्प्रयोगचिन्तनम् १ एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगासंप्रयोगप्रार्थनं २ इष्टशब्दादिविषयाणां सातवे दनायाञ्चाविप्रयोगसम्प्रयोगप्रार्थनं ३ देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च ४ शोकाक्रन्दनस्वदेहताडनवि| लपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं १, तथा रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत - आत्मैव तस्येदं कर्म रौद्रं, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं १ पैशून्यासभ्यासद्भूतघातादिवचनचिन्तनं २ तीव्रकोपलो भाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानं ३ सर्वाभिशङ्कनपरम्परोपघातपरायणशब्दादि विषयसाधकद्रव्यसंरक्षणप्रणिधानं च ४ उत्स nal For Private & Personal Use Only ६ गृह्यतिचारद्वारे तपोऽति चाराः १२ ॥ ६८ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy