SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ X-ROSS ACC तह य॥२॥"सामायिकादिचारित्राणां श्रद्धानं तथैव कायेन संस्पर्शनं अथ च सर्वसत्त्वानां पुरतः प्ररूपणं ॥ १॥ मनोवाकायविनय 51 आचार्यादीनां सर्वकाले अकुशलमनआदिरोधः कुशलानां तथोदीरणं च ॥२॥] तथा उपचारेण-सुखकारिक्रियाविशेषेण निवृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, स च सप्तधा-"अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण सम्वत्थेसु तह य अणुमई भणिया । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ २॥" [अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च । कारितनिमित्तकरणं दुःखार्त्तगवेषणं च तथा ॥१॥ तथा देशकालज्ञानं तथा सर्वार्थेष्वनुमतिर्भणिता । औपचारिकस्तु विनय एष भणितः समासेन ॥ २ ॥] तत्र 'अब्भासऽच्छणं'ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे-प्रत्यासन्ने स्थातव्यं, तथा छन्द:-अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः-कृते भक्तादिना | उपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यं, तथा| कार्यनिमित्तकारणं, कार्य-श्रुतप्रापणादिकं निमित्तं-हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं, तदनुष्ठानं च कर्तव्यं, यद्वा कारितेन-सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं-विनयस्य विधानं कारितनिमित्तकारणं, गुरुणा सम्यक सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्त्तस्य-दुःखपीडितस्य गवेषणं| -औषधादिना प्रतिजागरणं दुःखार्त्तगवेषणं, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविष येष्वनुमति:-आनुकूल्यं, अथवा द्विपञ्चाशद्भेदो विनयः, स च पञ्चषष्टिद्वारे वक्ष्यते ८॥ 'वेयावच्च'मिति व्यापिपर्ति स्मेति व्यापूतः जातस्य भावो वैयावृत्त्यं, धर्मसाधनार्थमन्नादिदानमित्यर्थः, यदाहुः-"वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा | Jain Education Intel For Private & Personal Use Only WEnelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy