SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० गृह्यतिचारद्वारे तपोऽतिचाराः१२ ॥६७॥ -COCACANCSCRACCCCCCC भक्तिस्तथा बहुमानः तद्दष्टार्थानां सम्यक्त्वभावना विधिग्रहणमभ्यासोऽपि चैष विनयो जिनामिहितः ॥ २॥] शुश्रषणादिकश्च दर्शनविनयः, यदाहु:-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुं किजइ सुस्सूसणाविणओ ॥ १ ॥ सकारभुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ॥२॥ इंतस्सऽणुगच्छणया ठिअस्स तह पजुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥ ३ ॥" [शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥ १॥ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहश्च तथा । आसनानुप्रदानं कृतिकाजलिग्रहश्च ॥ २॥ आयातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितं । ब्रजतोऽनुव्रजनमेष शुश्रूषणाविनयः ॥३॥] सत्कारः-स्तवनवन्दनादि अभ्युत्थान-विनयाहस्य दर्शनादेवासनत्यजनं सन्मानो-वस्त्रपात्रादिभिः पूजनं आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणासनानयनपूर्वकमत्रोपविशतेति भणनं आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणं कृतिकर्म-वन्दनकं अञलिग्रह:-अञ्जलिकरणं, शेष प्रकटं, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम्-"तित्थयर धम्म आयरिअ वायगे थेर कुल गणे संघे । संभोइअ किरियाए हामइनाणाईण य तहेब" ॥१॥ [तीर्थकरे धर्मे आचार्ये वाचके स्थविरे कुले गणे संघे सांभोगिके क्रियावति मतिज्ञानादीनां च तथैव ॥१॥ साम्भोगिका:-एकसामाचारिकाः क्रिया-आस्तिकता “कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहतमाझ्याणं केवलनाणावसाणाणं" ॥ १॥ [कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्च अहंदादीनां केवलज्ञानावसानानां ॥ १॥] भक्तिः-बाह्या प्रतिपत्तिः बहुमान:-आन्तरः प्रीतिविशेषः वर्णवादो-गुणग्रहणं, चारित्रविनयः पुनः "सामाइयाइचरणस्स सदहाणं तहेव कायेणं । संफासणं परू-1 वणमह पुरओ सव्वसत्ताणं ॥१॥" तथा "मणवयकाइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं | ॥७॥ For Private Personal Use Only in Educator jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy