SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 5654545455ARELICIES I उदयस्यैव निरोधः प्राप्तोदयानां वाऽफलीकरणं । यत्र कषायाणां कषायसंलीनतैषा ॥ १ ॥] योगसंलीनता पुनर्मनोवाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च, यदवोचन्-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजंमि य विहिगमणं जोगे संलीणया भणिया ॥ १॥" [अप्रशस्तानां योगानां निरोधः कुशलानां चोदीरणं कार्ये च विधिगमनं योगे सलीनता भणिता ॥१॥] विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्रीपशुपण्डकादिरहितेषु यदवस्थानं, यदाहुमहर्षयः- आरामुज्जाणा-1 इसु थीपसुपंडगविवजिए ठाणं । फलगाईण य गहणं तह भणियं एसणिज्जाणं ॥ १॥" [आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थानं । तथा एषणीयानां फलकादीनां ग्रहणं भणितं ॥ १॥] ६ ॥ चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्यं तपो भवति, बाह्यत्वं चास्य बाह्यद्रव्याद्यपेक्षत्वात् , प्रायो बहिः शरीरस्य तापकत्वात् लौकिकैरपि तपस्तया ज्ञायमानत्वात् कुतीर्थिकैरपि स्वाभिप्राये-|| णासेव्यमानत्वाञ्चेति ॥ २७० ॥ 'पायच्छित्त'मित्यादि, इह चित्तं-जीवो भण्यते, ततः प्रायो-बाहुल्येन चित्तं-जीवं विशोधयति-मूलो-|| त्तरगुणविषयातीचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं, तत् पुनरालोचनादिकं दशधा, यदाहुः-"आलोयण पडिक्कमणे || मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्ठया य पारंचिए चेव" ॥१॥ इति [आलोचना प्रतिक्रमणं मिश्र विवेकस्तथोत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं पाराश्चिकं चैव ॥ १ ॥] ७ ॥ एतत्स्वरूपं चाष्टानवतिद्वारे ग्यक्षेण वक्ष्यते, “विणए'त्ति विनीयते-क्षिप्यते | अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहुः-नाणे दसणचरणे मणवयकाओवयारिओ विणओ । नाणे |पंचपयारो मइनाणाईण सद्दहणं ॥ १ ॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणबभासोऽवि य एसो विणओ जिणाभिहिओ ॥२॥" [ज्ञाने दर्शने चारित्रे मनसि वाचि काये औपचारिको विनयः । ज्ञाने पञ्चप्रकारो-मतिज्ञानादीनां श्रद्धानं ॥१॥ म.सा.१२ Jain Educaton IMonal For Private & Personel Use Only HOvw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy