SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ६६ ॥ Jain Education रसानां - मतुब्लोपाद्विशिष्टरसवतां विकारहेतूनां दुग्धादीनां त्यागो - वर्जनं रसत्यागः ४ । 'कायकिलेसो 'त्ति कायस्य - शरीरस्य केश:| शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्यासनकरणेन अप्रतिकर्मशरीरत्व केशोल्लुश्चनादिना च विचित्र:, यदवाचि - "वीरा| सणक्कुडुगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवास निव्वेय हे उत्ति ॥ १ ॥ वीरासणाइसु गुणा कायनिरोहो दया य | जीवेसु । पर लोगमई य तहा बहुमाणो चेव अन्नेसिं || २ || निस्संगया अ पच्छापुरकम्मविवज्जणं च लोयगुणा । दुक्खसहत्तं नरगाइ| भावणाए य निव्वेओ || ३ ||” [ वीरासनोत्कटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानचैवान्येषां ॥ २ ॥ निःसंगता च पश्चात्पुरः कर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नारकभावनया च निर्वेदः || ३ ||] ५ | 'संलीणया य'त्ति संलीनता - गुप्तता, सा चेन्द्रियकषाययोगवि - या विविक्तशयनासनता चेति चतुर्धा, यदुक्तम् — “इंदिय कसायजोए पडुच्च संलीणया मुणेयव्वा । तह य विवित्ता चरिया पन्नत्ता वीयराएहिं ॥ १ ॥ [ इंद्रियकपाययोगान् प्रतीत्य संलीनता ज्ञातव्या । तथा विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १ ॥ ] तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाकरणं श्रवणेन्द्रियसंलीनता, यदाहुः – “सद्देसु य भद्दयपावएस सोयविस्यमुवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होयव्वं ॥ १ ॥” [ शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यं ॥ १ ॥ ] एवं च क्षुरादीन्द्रियेष्वपि भावनीयं यथा - "रूवेसु य भद्दयपावएसु चक्खुविसयमुवगएसु । तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ १||” [ रूपेषु च भद्रकपापकेषु चक्षुर्विषय० ] इत्याद्यभिलापेनेति, कषायसंलीनता च कषायाणामनुदीर्णानामुदय निरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यद्भ्यधायि - "उदयरसेव निसेहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसाय संलीगया एसा ॥ १ ॥” For Private & Personal Use Only ६ गृह्यति चाराः १२ तपसः ३. वीर्यस्य गा. २७०२७२ ॥ ६६ ॥ w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy