________________
BACOCALC
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
६ गृह्यति
चाराः १२ तपसः ३ वीर्यस्य गा.२७०२७२
SEARCRA
इत्यादि [ द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः कवला भवेयुः ॥ १ ॥ कवलस्य च प्रमाणं कुर्कुट्यण्डकप्रमाणमात्रमेव यद्वा अविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥ २॥] सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहुः-'अप्पाहार १ अवडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ दुवालस सोलस चउवीस तहकतीसा य ॥१॥” अयमत्र भावार्थः-अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा व्यादिकवलमानभेदा मध्यमा, एवं नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरिका,अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा, एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवलाः तावहिभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत्, एवं सप्तदशभ्य आरभ्य यावत् चतुर्विशतिः कवलास्तावत् प्राप्तोनोदरिका, जघन्यादित्रयभावना अत्रापि पूर्ववत् , एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्क|वलास्तावत् किश्चिदूनोदरिका, जघन्यादिभेदत्रयं पूर्ववद्भावनीयं, एवमनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण | द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम्-“कोहाईणमणुदिणं चाओ जिणवयणभावणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहिं ॥१॥ [क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च भावेनोनोदरिका प्रज्ञप्ता वीतरागैः ॥१॥] २ । 'वित्तीसंखेवणं'ति वर्तते अनयेति वृत्तिः-भक्ष्यं तस्याः सङ्केपणं-सङ्कोचः तच्च गोचराभिग्रहरूपं, ते च गोचरविषया अभिप्रहा अनेकरूपाः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो मया अद्य भिक्षायां गतेन लेपकार्याद्येव कुन्ताग्रादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एकद्वि
त्र्यादिगृहस्वग्रामपरग्रामपेटार्धपेटादिलब्धं दायकेन देहलीजस्योरन्तर्विधाय वा दत्तं गृहीष्यामीत्यादयः, कालतः पूर्वाह्लादौ सकलभिक्षाचर८ निवर्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसनगानरोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्य
U SLCAUSESCORECAST
॥६५॥
JainEducationkelional
For Private sPersonal use Only
Brow.jainelibrary.org