SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥ २७० ॥ पायच्छित्तं विर्णओ वैयावचं तहेव सैज्झाओ । झाणं उग्गोव य अभितरओ तवो होइ ॥ २७९ ॥ सम्ममकरणे वारस तवाइयारा तिगं तु विरिअस्स । मणवयकाया पावपउता विरियति अइयारा ॥ २७२ ॥ 'अणसणे'त्यादि गाथाद्वयं, तत्र अश्यत इति अशनं न अशनं अनशनमाहारत्याग इत्यर्थः तत्पुनर्द्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं - परिमितकालं, तत्पुनः श्रीमहावीरतीर्थे नमस्कारसहितादि षण्मासान्तं श्रीनामे यतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थे त्वष्ट मासान् यावत् यावत्कथिकं पुनराजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा यथा पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा चेति, एतेषां त्रयाणामपि स्वरूपं सप्तपञ्चाशदधिकशततमद्वारादव सेयमिति १ । 'ऊणोअरिय'त्ति ऊनमुदरं ऊनोदरं तस्य करणं भावे वुनि ऊणोदरिका, व्युत्पत्तिरेवेयं, अस्य प्रवृत्तिस्तूनतामात्रे, सा द्विधा- द्रव्यतो भावतश्च द्रव्यत उपकरणभक्तपानविपया, तत्र उपकरणविषयोनोदरिका जिनकल्पिकादीनां तदभ्यासपरायणानां वाऽवबोद्धव्या, न पुनरन्येषां तेषामुपध्यभावे समप्रसंयमपालनाऽभावात्, अथवाऽ | न्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता, यत उक्तम् - "जं वट्टइ उवगारे उवगरणं तं च होइ उवगरणं । अइरित्तं अहिगरणं अजओ अजय परिहरंतो ॥ १ ॥” [ उपकरणं यद्वर्त्तते उपकारे तदेव भवत्युपकरणं । अतिरिक्तमधिकरणं अयतोऽयतं भुञ्जन् ॥ १ ॥ ] इति, 'परिहरतोत्ति आसेवमानः 'परिहारो परिभोगों' इति वचनात्, ततोऽयतश्च यत्परिभुञ्जानो भवतीत्यर्थः, भक्तपानोनोदरिका पुन| रात्मीयाहारमानपरित्यागतो विज्ञेया, आहारमानं च- 'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठा| वीसं भवे कवला ॥ १ ॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जं वा अविगियवयणो वयणम्मि छुभिज्ज वीसंतो || २ || ” Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy