SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४॥ साधुजुगुप्सा तदभावो निर्विद्वजुगुप्स, तत एतेषां द्वन्द्वः, पुंल्लिङ्गनिर्देशश्च प्राकृतत्वात् ३ । तथा अमूढा-तपोविद्यातिशयादिकुतीर्थिक- गृह्यतिदिदर्शनेऽप्यमोहा-स्वभावादविचलिता सा च सा दृष्टिश्च-सम्यग्दर्शनं अमूढदृष्टिः, अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कितनि- चाराः काङ्खितनिर्विचिकित्सा जीवाः, अमूढा दृष्टिरस्येत्येवममूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचारादर्शनाचारभेदा भवन्तीति ४ १२ तपसः तथा उपबृहणं उपबृंहा-समानधार्मिकाणां क्षपणावैयावृत्त्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणं ५ । तथा स्थिरीकरणं तु धर्माद्विषीदता ३ वीर्यस्य तत्रैव चाटुवचनचातुर्यादवस्थापन, उपबंहा च स्थिरीकरणं च उपबृंहास्थिरीकरणे ६ । तथा वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, गा.२७०तत्र वात्सल्यं-समानदेवगुरुधर्माणां भोजननिवसनदानोपकारादिभिः सम्माननं ७ । प्रभावना-धर्मकथाप्रतिवादिनिर्जयदुष्करतपश्चरणकर- २७२ णादिभिर्जिनप्रवचनप्रकाशनं, यद्यपि च प्रवचनं शाश्वतत्वात् तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते तथापि दर्शन शुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति, यथा भगवदार्यवज्रस्वामिप्रभृतिक इति ८॥२६८ ॥ एतेKIऽष्टौ दर्शनाचाराः, साम्प्रतं चारित्राचारानाह–'पणिहाणजोगे'त्यादि, प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना योगा-व्यापाराः प्रणि धानयोगाः तैर्युक्त:-समन्वितो यः साधुः पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः कृत्वा, अथवा 'सुपां सुपो भवन्तीति वचनात् सप्तम्यर्थे * तृतीया, ततः पञ्चसु समितिषु तिसृषु गुप्तिषु विषये-एता आश्रित्य प्रणिधानयोगयुक्तो यः स एष चरणाचारः, आचाराचारवतोः कथचिदभेदादिति, ज्ञेय इति शेषः, एतेषां त्रयाणामपि ज्ञानाचारादीनां विपर्यस्ततायां-अकालाविनयादौ शङ्कितत्वादो अप्रणिधानरूपायां च |सत्यामतीचारा:-चित्तमालिन्यलक्षणा इति ।। २६९ ॥ 'बारस तवत्ति व्याख्यातुमाह ॥६४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ - Jain Education / For Private Personel Use Only MMw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy