________________
Jain Education
स्वाध्याय: कार्यो नान्यदा प्रत्यवायसम्भवात् दृश्यते च लोकेऽपि कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति यत उक्तम् - "कालंमि कीरमाणं किसिकम्मं बहुफलं जहा होइ । इय सव्वाविय किरिया नियनियकालंमि विन्नेया ॥ १ ॥ [ काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति । एवं सर्वाऽपि च क्रिया निजनिजकाले विज्ञेया ॥ १ ॥ ] इति १ । तथा 'विणए 'ति विनये - विनयविषये ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां च - पुस्तकादीनामुपचाररूपः, यतो विनयेन - आसनदानाऽऽदेशकरणादिना पठनीयं न पुनरविनयेन - आसनदानाद्यकरणेन २ । तथा 'बहुमाणे 'ति बहुमान:- प्रीतिस्तद्विषये, यतो बहुमानेनैव - आन्तरचित्तप्रमोदलक्षणेन पठनादि विधेयं न पुनर्बहुमानाभावेनेति ३ तथा 'उवहाणे'त्ति उप-समीपे धीयते - ध्रियते सूत्रादिकं येन तपसा तदुपधानं तपोविशेषः तद्विषये, यतो यद्यस्य सूत्रस्य अध्ययनोद्देशकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादि विधेयं नान्यथेति ४ । तथा ' ( तहा ) अनिण्हवणे 'ति तथाशब्दः समुच्चये, निह्नवनमपलपनं न निहवनमनिह्नवनं तद्विषये, यतोऽनिह्नवेनैव पाठादि सूत्रादेर्विधेयं न पुनर्मानादिवशतः आत्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापेनेति ५ । तथा 'वजण अत्थतदुभये' इति व्यञ्जनानि - ककारादीनि अर्थ:- अभिधेयं तदुभयं च-व्यञ्जनार्थयोरुभयं ततः समाहारद्वन्द्वः कोऽर्थः ? - व्यञ्जनविषयेऽर्थविषये तदुभयविषये च ज्ञानाचारत्रयं भवति, एतत्त्रयानन्यथाकरणेन सम्यगुपयोगेन च यतः सूत्रादि पठनीयं नान्यथा ६-७-८, अत्र व्यञ्जनग्रहणमुपलक्षणं स्वरा अपि द्रष्टव्याः । एवमष्टविधः - अष्टप्रकारो ज्ञानस्य - श्रुतज्ञानस्याचारो - ज्ञानाराधनतत्पराणां व्यवहार इति ॥ २६७ ॥ अथ दर्शनाचारभेदानाह - ' निस्संकियेत्यादि, शङ्कितं शङ्का – सन्देहस्तस्याभावो निःशङ्कितं दर्शनस्य - सम्यक्त्वस्याचारः १ । इत्येवमन्यत्रापि, तथा काङ्क्षितं काङ्क्षा - अन्यान्यदर्शनग्रहः तदभावो निष्काङ्क्षितं २ । तथा विचिकित्सा - मतिविभ्रमः युक्तत्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः तदभावो निर्विचिकित्सं यद्वा विद्वज्जुगुप्सा - मलमलिना एते इत्यादि -
For Private & Personal Use Only
jainelibrary.org