SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ६ गृह्यति चारा २४ ज्ञानादीनां गा.२६७ २६९ -SCREERCIA वेधो गवाश्वादीनामङ्कनं तेषामेव वर्धितकीकरणं करभाणां पृष्ठगालनं गवां च कर्णकम्बलच्छेदनादिकमिति, यदाहुः-"नासावधोऽङ्कन मुष्कच्छेदनं पृष्टगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥ १॥” १३ इति ॥ 'असतीपोष' इति असत्यो-दुःशीलास्तासां| दासीसारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमतनं तेन शुकश्वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि-"मज्जारमोरमक- डकुक्कुडसालहीअकुक्कुराईणं । दुहित्थिनपुंसाईण पोसणं असइपोसणयं ॥१॥” इति [मार्जारमयूरमर्कटकुर्कुटशुककुर्कुरादीनां । दुष्टस्त्रीनपुंसकादीनां पोषणमसतीपोषणं ॥ १ ॥] एषां च पोषणं पापहेतुरेवेति १४ ॥ तथा 'जलाशयशोषो' जलाशयानां-सरःप्रभृतीनां शोषणमिति, तदुक्तं-"सरदहतलायसोसो बहुजलयरजीवखयगारी" [सरोद्रतटाकशोषो बहुजलचरजीवक्षयकारी] १५॥ एतानि |च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैतद्वहुसावद्यानां कर्मणामेवञ्जातीयानां न पुनः परिगणनमिदमिति ॥ २६६ ।। 'नाणाइअट्टत्ति ज्ञानदर्शनचारित्राणां प्रत्येकमष्टावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे |आचारलक्षणे ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आह काले विणए बहुमाणोवहाणे तहा अनिण्हवणे । वंजण अत्थ तभए अट्टविहो नाणमायारो ॥२६७॥ निस्संकिय निकंखिय निवितिगिच्छा अम्रदिट्टीय। उवह थिरीकरणे वच्छल्ल पीवणे अट्ठ॥ २६८॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । चरणायारो विवरीय याई तिण्हंपि अइयारा ॥ २६९॥ 'काले'त्यादि, काले-कालविषये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव ॥६३॥ Jain Education VIRLional For Private & Personel Use Only & w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy