________________
णिज्यं तथा दुग्धतैलघृतदधिप्रभृतीनां ॥१॥] ९॥ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वगवोष्ट्रमहिषवालेयादिजीवान् गृहीत्वा तत्रान्यत्र जवा विक्रीणीते जीविकानिमित्तं तत् केशवाणिज्यं, यदाहुः-"मणुयाणं तिरियाणं विक्किणणं इत्थ अन्नदेसे वा । केसवणिज्जं भन्नइ गो-|
गद्दहअस्समाईणं ॥१॥" [मनुजानां तिरश्चां विक्रयणमत्रान्यदेशे वा केशवाणिज्यं भण्यते गोगर्दभाश्वादीनां ॥ १ ॥] १० ॥ सजीवानां विक्रये केशवाणिज्यं, अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः ॥२६४॥ तथा दवदानं यत्रवाहनं निर्लान्टनं असतीपोषः, एतैः सहितानि, सह जलाशयशोषेण वर्तन्ते सजलाशयशोषाणि, चः समुच्चये, कर्माणि भवन्ति पञ्चदश, तत्र 'देवदान' दव-| | स्य-दवाग्नेस्तृणादिदहननिमित्तं दानं-वितरणं दवदानं, तच्च द्विधा भवति-व्यसनात-फलनिरपेक्षप्रवृत्तिरूपात् , यथा वनेचरा एवमेव तृणा-| दावनिं ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे| सति नवतृणाङ्कुरोद्भेदागावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमग्निं ज्वालयन्तीति, यदुक्तं-"वणदवदाणमरण्णे दवग्गिदाणं तु| जीववहजणयं ।' [अरण्ये वनदवदानं दवाग्निदानं जीववधजनकं ]॥११॥ 'यन्त्रवाहन मिति तिलेक्षुसर्षपैरण्डफलादिपीलननिमित्तं तत्तद्यत्राणां-घाणकादीनां अरघट्टादिजलयत्राणां च वाहनं--व्यापारणं शिलोदूखलमुशलादीनां विक्रयणं वा यत्रवाहनं, यन्त्रपीलनकर्मेत्यर्थः, उक्तं च-"सिलउक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुत्तिलपीलणं वा तं बिंती जंतपीलणयं ॥ १॥" [शिलोदूखलमुशलघरट्टकंकटादीनां यदिह विक्रयणं । इक्षुतिलपीडनं वा तत् ब्रुवते यत्रपीडनकर्म ॥१॥] एतच्च पीलनीयतिलादिक्षोदात्तद्गतजी.
ववधाच सदोष, यतो लौकिका अपि भाषन्ते-"दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः & ॥१॥” १२ इति । 'निलाञ्छन मिति नितरां लाञ्छनं-अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लान्छनकर्म, तत्र गोमहिषोष्ट्रादीनां नासा
Jain Education (141
For Private & Personel Use Only
Dnaw.jainelibrary.org