________________
6RC
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥६१॥
नुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः-प्राणिवर्गः स इहलोकः तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा- ६ गृह्यतिअनेनाऽऽराधनादिकष्टेन मृतः सन्नुन्मत्तद्विपघटोटतरलतरतुंगतुरङ्गराजीविराजमानसुन्दरमन्दुराशतकान्तः काञ्चननिस्सपत्नरत्नोदण्डमणि- | चारा खण्डप्रमुखमहासमृद्धिसम्भारविनिर्जितवैश्रमणकोशः क्षितिपतिर्विशुद्धबुद्धिरमात्यो वा ज्येष्ठः श्रेष्ठी वा जन्मान्तरे अहं भवेयमित्येवं नरप- |
181५ संलेखत्यादिसमृद्धिप्रार्थना १ तथा परलोकाशंसाप्रयोगः-कमनीयकामिनीनयननलिननिपीयमानलसल्लावण्यपुण्यपीयूषः सुरपतिरहं स्यां देवो नायां वा इत्यादिप्रार्थना २ तथा मरणं प्रत्याशंसाप्रयोगः तथाविधप्रान्तक्षेत्रप्रतिपन्नानशनो लोकैः क्रियमाणप्रभावनाकारिपूजाद्यभावे गाढ- गा. २६३. तररोगपीडायां वा यद्यहं झटित्येव म्रिये तदा भव्यं भवेदिति प्रार्थना ३ तथा जीवितं-प्राणधारणं तदाशंसायाः-तदभिलाषस्य प्रयोगो, २६४ | यथा-बहुकालमहं जीवेयमिति, अयं हि कृतानशनः कश्चित् कर्पूरश्रीचन्दनवस्त्रमाल्यधवलरासकादिविशिष्टपूजादर्शनाद् बहुपरिवारावलोकनान्निरन्तरागच्छदतुच्छजननिकरण धन्योऽयं पुण्यवानित्यादि क्रियमाणश्लाघाश्रवणात् सवादिधार्मिकजनोपबृंहणाच्चैवं मन्यते, यथाप्रतिपन्नानशनस्यापि चिरतरं जीवितमेव मे श्रेयः यत एवंविधा मदुद्देशेन शासनप्रभावना विभूतिश्च वर्तत इति ४ तथा कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शास्तेषामाशंसा, यद्यनेन कष्टाराधनाविधिना मम जन्मान्तरे विशिष्टाः कामभोगाः सम्पद्यन्ते तदा भव्यं भवतीत्यादिविकल्परूपा, एते मरणान्ते पञ्चातीचाराः ५, एतैः समयविधिकृताऽप्याराधना दृष्यत इति न कर्तव्या एवंविधा आशंसाः, यत उक्तम् |
- आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १॥" 'पन्नरस कम्म'त्ति व्याख्यायते, तत्राह
भाडी फोडी साडी वणअंगारस्सरूवकम्माई । वाणिजाणि अविसलक्खदंतरसकेसविसयाणि
भा॥६१।।
Jain Educatio
n
al
For Private & Personal Use Only
T
w
.jainelibrary.org