________________
प्र. सा. ११
Jain Education
वाविशिष्टं कायोत्सर्गमानं क्रियते किन्तु यो यत्परिमाण: कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमभणित्वा पारयतो भङ्गः, अपरिसमाप्तौ च पठतोऽपि भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहंताण' मिति वक्तव्यं, तथा मार्जारमूषकादेः पुरोगमनेऽप्रतः सरतोऽपि न भङ्गः, तथा राजसम्भ्रमे चौरसंभ्रमे वाऽस्थानेऽपि नमस्कारमुच्चारयतो व भङ्गः, तथा सर्पदष्टे आत्मनि परे वा साध्यादौ सहसा उच्चारयतो न भङ्ग इति ॥ इदानीं 'चडवीससमहियसयं गिहिपडिकमणाइयाराण' मिति षष्ठं द्वारं विवृण्वन्नाह—
पण संलेहेण पन्नरस कॅम्म नाणाइ अट्ठ पत्तेयं । बारस तव विरियतिंगं पण सम्म वयाई पत्तेयं ॥ २६३ ॥ इहपरलोयासंसप्पओग मरणं च जीविऑसंसा | कामे भोगे व तेहा मरणंते पंच अइआरा ।। २६४ ॥
'पणे 'त्यादि, पञ्च संलेखनायां अतीचारा इति सर्वत्र योज्यं, पंचदश 'कम्मति कर्मादानानि ज्ञानादिषु - ज्ञानदर्शनचारित्रेषु अष्टौ प्रत्येक मित्यष्टकत्रयस्य मीलने चतुर्विंशतिः भवंति विंशतिक्षिप्तेषु जाताश्चत्वारिंशत् ४४ द्वादश तपसि - तपोविषये, लुप्तसप्तमीयमिदं द्रष्टव्यं चतुश्चत्वारिंशत्मध्ये द्वादशसु क्षिप्तेषु पट्पञ्चाशज्जातानि वीर्यत्रिके - मनोवचनकायवीर्यलक्षणे, अत्र सप्तम्यर्थे प्रथना, वीर्यत्रिके क्षिप्ते एकोनषष्टिः जाताः तथा सम्यक्त्वे पञ्चातीचाराः, तथा व्रतानि - अणुव्रतादीनि द्वादश तेषु प्रत्येकं पञ्च पञ्चातीचारा इति व्रतेषु षष्टिः, एते च सर्वे मिलिताश्चतुर्विंशत्यधिकं शतं ॥ २६३ ॥ इदानीं क्रमेणैव सर्वानेतान् स्वयमेव व्याचष्टे - 'इहपरलोए'त्यादि, आशंसनमाशंसा-अभिलाषः तस्याः प्रयोगो-व्यापारणं करणमाशंसाप्रयोगः, आशंमैव वा प्रयोगो-व्यापार आशंसाप्रयोगः, तत्र इह-अस्मिन् प्रज्ञापकम
For Private & Personal Use Only
www.jainelibrary.org