SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain Education इत्यादि, स्तम्भे वा कुड्ये वा अवष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ तथा माले - उपरितनभागे उत्तमाङ्गमवष्टभ्य करोत्युत्सर्गमिति मालदोषः ४ ॥ २५० ॥ 'सबरी' त्यादि, शबरी - पुलिन्दिका वसनविरहिता कराभ्यां सागारिकं गुह्यं यथा स्थगयति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोत्यु सर्गमिति शबरीदोषः ५ ।। २५१ ॥ 'अवणे'त्यादि, अवनामितोत्तमाङ्गः कुलवधूरिव तिष्ठन् करोत्युत्सर्गमिति वधूदोष: ६ निगडनियन्त्रित इव चरणौ विस्तार्याथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोष: ७ ॥ २५२ ॥ 'काऊणे' त्यादि, कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्ताच्च जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः ८ ।। २५३ ॥ 'पच्छाई'त्यादि, अवच्छाय - स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थं अथवा अनाभोगदोषेण - अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ९ ॥ २५४ ॥ ऊर्श्विकादोषो द्विधा - बाह्यविकादोषोऽभ्यन्तरोर्श्विकादोषञ्च तत्र द्वावपि क्रमेण आह - - 'मेलित्तु' इत्यादि, मीलयित्वा पाण चरणावग्रभागे विस्तार्य बाह्यतो - बहिर्मुखं तिष्ठत्युत्सर्गे एष बहिः शकटोर्श्विकादोषो ज्ञातव्यः ॥ २५५ ॥ तथा 'अंगुट्टे' त्यादि, अङ्गुष्ठौ द्वावपि मेलयित्वा विस्तार्य पाष्र्णी तु बाह्यतस्तिष्ठत्युत्सर्गे एष भणितोऽभ्यन्तरशकटोविकादोषः १० ॥ २५६ ॥ 'कप्पमित्यादि, कल्पं वा-पट्टी पट्टे वा - चोलपट्टे संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्गे इति संयतीदोष : ११, खलीनमिव - कविकमित्र रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति खलीनदोषः १२, वाऽत्र समुच्चये, अन्ये खलीनार्त्तवाजिवदूर्ध्वाध:शिरः कम्पनं खलीनदोषमाहुः || २५७ ॥ तथा 'भाई'त्यादि, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमणं दिग्निरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः १३, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जङ्घादि मध्ये कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः १४ एवमेव मुष्टिं बध्ध्वा स्थानमित्यन्ये ॥ २५८ ॥ 'सीसमित्यादि, भूताविष्टस्येव शीर्ष कम्प For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy