________________
विकटानां चत्वार्यङ्गुलानि संसृष्टं न विकृतिर्भवति, अयमभिप्रायः-कूरः क्षीरमिश्रितः कृतः, तत्र कूरस्योपरि यदि चत्वार्यकुलानि क्षीरं चटितं भवति तदा न विकृतिर्भवति, निर्विकृतिकानां कल्पते, यदा तु पञ्चमाङ्गुलारम्भो भवति तदा विकृतिरेव, न कल्पते निर्विकृतिकानामित्यर्थः, एवं दध्नो विकटस्य च वक्तव्यं, तथा फाणितेन-द्रवगुडेन मिश्रिते कूरठोठिकादौ यद्येकमङ्गुलमुपरि चटितं भवति तदा न विकृतिः, एवं तैलघृतयोरपि वक्तव्यम् ॥ २२२ ॥ 'महुपुग्गले'त्यादि, मधूनि च पुद्गलानि-मांसानि च तेषां |
रसैः संसृष्टम्-अङ्गुलस्याध संसृष्टं भवति, अङ्गुलार्धात्परतो विकृतिरेवेति, गुलपुद्गलनवनीते-एतद्विषये एतैः संसृष्टमितियावत् आर्द्राम-15 दलकं तु, तुशब्दस्यावधारणार्थत्वादाामलकमेव न विकृतिर्भवति, आर्द्रामलकं तु शणवृक्षसम्बन्धी मुकुरः, अयमर्थः-गुडमांसनवनीतखण्डै
राामलकप्रमाणैर्बहुभिरपि संसृष्टमोदनादिकं न विकृतिर्भवति, एतदीयेनैकेनापि स्थूलखण्डेन संसृष्टं विकृतिरेवेति ।। २२३ ॥ इदानीं प्रत्याख्यानविषयाण्येव विशेषवस्तूनि कथयन्नाह–'विगईत्यादि, विकृतीविकृतिगतानि चानन्तकायानि वर्जनीयवस्तूनि हे भव्य-5 जनाः ! शृणुत वर्णयाम्यहं भवतामिति, तानि च कियझेदानि भवन्तीति यथासङ्ख्येनाह-दश त्रिंशत् द्वात्रिंशत् द्वाविंशतिरितिसङ्ख्यानि, कोऽर्थः ?-विकृतिर्दशभेदा विकृतिगतानि त्रिंशत्सङ्ख्यानि अनन्तकायानि द्वात्रिंशत् वय॑वस्तूनि द्वाविंशतिं वर्णयामीति ॥ २२४ ॥ अत्र च शृणुतेति यदुक्तं तत्रायमभिप्राय:-शृण्वतामुपस्थितानामेव भव्यानां सूरिभिर्धर्मः कथनीयः, नानुपस्थितानां, यदवाचि-"अणुवटियस्स धम्म मा हु कहिज्जाहि सुट्ठवि पियस्स । विच्छाये होइ मुहं विज्झायग्गिं धम्मंतस्स" ॥१॥ इति [अनुपस्थिताय
धर्म मा चीकथः सुष्टुपि प्रियाय । विच्छायं भवति मुखं विध्यातमग्निं धमतः ॥ १॥] वर्णयामीत्यस्यायमभिप्रायः-परोपकारनिरतैः १ सूरिभिः कथ्यमान एव जीवादितत्त्वे भव्यानां विवेकः समुल्लसति, यदाहुः-"सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयपि 5
CREACOCCASSENSAR
Jain Education
For Private Personal use only
w
.jainelibrary.org