________________
४ प्रत्याख्यानद्वारे | विकृतिस्वरूपं
तत्त्वज्ञानवि०
दधिनवनीतघृतानि, आह-कथं चत्वार्येव भवन्ति ? पञ्च कथं क्षीरवन्न भवन्ति ?, तत्राह-यस्मादुष्ट्रीणां दुग्धे तानि न भवन्ति, || सरढस्यैव भावादिति ॥ २१८ ॥ 'चत्तारी'त्यादि, उत्तरत्र स्थितस्य चस्यात्र सम्बन्धात्तैलानि च चत्वारि भवन्ति विकृतय इति सण्टङ्कः, केषां सम्बन्धीनि ?, तत्राह-तिलअतसीकुसुम्भसर्षपाणां, शेषाणां डोलादीनां मधुकफलादीनां आदिशब्दान्नालिकेरएरण्डशिंशपादीनां सम्बन्धीनि तैलानि न विकृतयः अत्र च तेल्ला इति प्राकृतत्वात्पुंसा निर्देशः ।। २१९ ॥ 'दवेत्यादि, गुडे द्वौ भेदौ-द्रवगुडः पिण्डगुडश्च, तौ द्वावपि विकृती, तथा मद्ये द्वौ भेदौ एकं काष्ठैः-इक्षुतालादिमिनिष्पन्नं अपरं पिष्टैः-षष्टिकाकोद्रवादितण्डुलैर्निष्पन्नं, तो द्वावपि | विकृती, तथा मधु त्रिभेदं-मक्षिकाकृतं कुत्तिकाकृतं भ्रमरकृतं चेति त्रिधा-त्रिप्रकारमपि विकृतिर्भवति ।। २२०॥ 'जले'त्यादि, मांसं | त्रिभेदं, जलचराणां-मत्स्यादीनां सम्बन्धि स्थलचराणां-अजमहिषशूकरशशकहरिणादीनां सम्बन्धि खचराणां-लावकचटिकादीनां सम्बन्धि, || अथवा अन्यथा मांसत्रैविध्यं-चर्म वसा शोणितं चेति, एतच्च त्रिविधमपि विकृतिर्भवति, अवगाहिमकं पुनघृतेन वा तैलेन वा भृतायां
तापिकायां चलचलेतिशब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदैको घाणः पुनस्तेनैव घृततैलेन द्वितीय: पुनस्तेनैव तृतीयो विकृतिर्भवति, | यदि पुनस्तेनैव घृतेन तैलेन वा चतुर्थो घाणः पच्यते तदाऽसौ विकृतिर्न भवति, योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि कल्पते, अथ तापिका एकेनैव पूपकेन खजकेन वा सकलाऽपि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निर्विकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायतेऽयं चतुर्थोऽयं द्वितीयो घाणः प्रथमक्षिप्तघृतादिना पक्व इति, यदा पुनर्द्वितीयादिघाणेषु तापिकायामपरं घृतादि प्रक्षिप्तं चतुर्थादिवो अयं घाण इति सम्यग न ज्ञातं तदा न कल्पत एवेति ॥ २२१ ॥ गृहस्थसंसृष्टस्याकारस्य विशेषतः || स्वरूपमभिधीयते-गृहस्थैरोदनादिर्दध्यादिना स्वप्रयोजनाय संसृष्टः-संश्लेषित इति गृहस्थसंसृष्टः, तत्राऽऽह-'खीरदही'यादि, क्षीरदधि
॥५३॥
Jain Educator
For Private Personel Use Only
Sellww.jainelibrary.org