________________
क्षमा रत्नीयावचूर्युपेता|
श्रीपिण्डनियुक्तिः
॥२९॥
सङ्कल्पिते सति न कल्पते देवदत्तपाखण्डिशब्दाभ्यां देवदत्ताख्यस्य साधोरपि सङ्कल्पविषयीकरणाव , अमिश्रसङ्कल्पे साधु- विशेषतः व्यतिरिक्तान्यपाखण्डिभ्यो दास्यामीत्यादिरूपे कल्पते सङ्कल्पविषयाभावात् , यथा पाखण्डिषु तथा श्रमणेष्वपि मिश्रामिश्रेषु । कल्प्याविभाषा कर्त्तव्याः, यतः श्रमणा: शाक्यादयो भण्यन्ते यतो वक्ष्यति-"निग्गंथसकतावसगेरुय आजीव पंचहा समणा" यथा
कल्प्ययावन्तः श्रमणाः देवदत्ताख्यास्तेभ्यो दास्यामीति मिश्रसङ्कल्पे न कल्पते, यावन्तः शाक्याः श्रमणाः साधुव्यतिरिक्ता वा विधिः तेम्यो दास्यामीत्यमिश्रसङ्कल्पे कल्पते, तीर्थङ्करप्रत्येकबुद्धानां सङ्घातीतत्वेन सङ्घमध्यवर्तिभिः सह साधम्मिकत्वाभावात् , Td " संजयाण उ विसरिसनामाणवि न कप्पा" इति वचनाचार्थ्यापत्त्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादि नाम्ना साधूनां कल्पते इति प्रतिपादितं द्रष्टव्यम् ॥ १४३ ॥ अथ स्थापनाद्रव्यसाधम्मिकावाश्रित्य कल्प्याकल्प्य विधिमाहनीसमनीसा व कडं ठवणासाहम्मियम्मि उ विभासा। दवे मयतणुभत्तं न तं तु कुच्छा विवज्जेजा ॥१४४|
इह कोऽपि गृही गृहीतप्रबज्यस्य मृतस्य जीवतो वा पित्रादौ स्नेहवशात् प्रतिकृति कृत्वा तत् पुरतो ढोकनाय बलिं करोति सा द्विधा-निश्रयाऽनिश्रया च, तत्र ये रजोहरणधारिणो मत्पितृतुल्यास्तेभ्यो दास्यामीति सङ्कल्पे निश्रा, तद्विपरीता स्वनिश्रा, ततः स्थापनासाधमिकनिश्रयाऽनिश्रया वा कृतं भक्तादि तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदा न कल्पते, अनिश्राकृतं तु कल्पते, प्रवृत्तिदोषप्रसङ्गादाचार्या निषेधयन्ति च, तथा द्रव्ये द्रव्यसाधर्मिके मृतस्य साधोर्या तनुस्तस्याः पुरतो ढौकनाय कृतं भक्तं निश्राकृतं, अनिश्राकृतं प्रागवत् द्विधा, तन्नेति-तन्नैव कल्पते, अनिश्राकृतं तु कल्पते, परं लोके जुगुप्सा स्यादिति वर्जयन्ति ॥ १४४ ॥ क्षेत्रकालावाश्रित्याह
॥२९॥
Jain Education Inter
For Private & Personel Use Only
|www.jainelibrary.org