SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सामान्यतः कल्प्याकल्प्यविधिः भव्यस्तेनैव शरीरेण, भावे दीक्षायोगः, 'स' इति अथवा साधर्मिकशरीरं सिद्धशिलातलादिगतमपगतजीवं, तदप्यतीतावस्थाऽपेक्षया द्रव्य इति, क्षेत्रे समानदेशसम्भूतः, काले एककालसम्भृतः, प्रवचने साध्वादिरूपचतुष्टयसङ्घमध्ये एकतरः, लिङ्गे रजोहरणमुखवस्त्रिका उपलक्षणत्वादन्योपकरणानि च तद्वान् साधम्मिक इति, सर्वत्र क्षायिकक्षायोपशमिकौपशमिक मेदात्रिधा दर्शने, मतिश्रुतावधिमनःपर्यवकेवलज्ञानभेदात् पञ्चधा ज्ञाने, यथा मतिज्ञानिनो मतिज्ञानी साधर्मिक इति सर्वत्र | ज्ञेयम् , सामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराय( यथाख्यात )भेदात पञ्चधा चारित्रे, 'तिविह 'त्ति मतान्तरेण पक्षायिकक्षायोपशमिकोपशमिकभेदात् त्रिधा वा भवति चारित्रे, द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा अभिग्रहे, अथ भावनाया. मनित्यादिभेदावादशधा साधम्मिका इति सर्वत्र ॥ १३९-१४१ ।। अथ नामसाधम्मिकमुद्दिश्य कल्प्याकल्प्यविधिमाहजावंत देवदत्ता गिहीव अगिहीव तेसि दाहामि । नो कप्पई गिहीणं दाहंति विससिये कप्पे ॥१४२॥ यावन्तो देवदत्ता गृहस्था अगृहस्था वा तेभ्यो दास्यामीत्युक्ते देवदत्ताख्यस्य साधोर्न कल्पते, तदुक्तं देवदत्तशब्देन तस्यापि सङ्कल्पविषयीकरणात् , यदा तु गृहस्थानां देवदत्तानां दास्ये इति विशेषिते सति कल्पते ॥ १४२ ।। पासंडीसुवि एवं मीसामीसेसु होइ हु विभासा । समणेसु संजयाण उ विसरिसनामाणवि न कप्पे ॥ तथा पाखण्डिषु एवं पूर्वोक्तप्रकारेण मिश्रामिश्रेषु विभाषा कर्तव्या, अत्र सामान्यसङ्कल्पविषया मिश्रा उच्यन्ते, यथा यावन्तः पाखण्डिनो देवदत्ता इति विशेषकल्पविषयास्त्वमिश्रा यथा यावन्तः सौगता देवताः पाखण्डिन इति तत्र मिश्र Jain Eduent an inte For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy