SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ एषणामेदाः। क्षमारत्नीयावर्युपेता श्रीपिण्डनियुक्तिः। ॥१६॥ तत्र स्फुटो-निर्मलो न तात्पर्यानवबोधेन कश्मलः, विकटः-सूक्ष्ममतिगम्यतया दुर्भेदः प्रकटो-विशिष्टवचनरचनाविशेषण सुखप्रतिपाद्योऽर्थोऽभिधेयं यस्याः सा तथा ताम् ॥ ७२ ।। अथैषणाया एकार्थिकानि नामानि प्राहएसण गवेसणा मग्गणा य उग्गोवणाय बोद्धव्वा । एए उ एसणाए नामा एगट्रिया होंति ॥७३॥ एषणा, गवेषणा, मार्गणा, उद्गोपना, एतान्येकाथिकानि नामानि एषणाया बोधव्यानि भवन्ति ॥ ७३ ॥ अथैषणा भेदानाहनाम ठवणा दविए भावंमि य एसणा मुणेयवा । दवे भावे एकेकया उ तिविहा मुणेयवा ॥७४ ॥ चतुर्विधा एषणा ज्ञातव्या, तथाहि नामैषणा, एषणा इति कस्यापि नामेति, स्थापनैषणा एषणावतः साध्वादेरयमेष. णेति स्थापना, तथा द्रव्ये एषणा भावे चैपणा, द्रव्यभावयोः स्वरूपमाह-द्रव्ये भावे चैषणा एककात्रिविधा ज्ञातव्या ॥७४॥ तत्र द्रव्यविषया सचित्तादिभेदात्रिधा, भावैषणा-गवैषणाग्रहणैषणाग्रासैषणामेदात्रिधा तत्र द्विपदचतुष्पदापदमेदात्रिधा, सचित्तद्रव्यपणा, तत्र प्रथमतो द्विपदद्रव्यविषयामेषणामाहजम्मं एसइ एगो सुयस्स अन्नो तमेसए नद्रं । सत्तं एसड अन्नो पएण अन्नो य सेमच्चुं ॥७५॥ इह यद्यपि चत्वारि एषणादीनि नामानि प्रागेकाथिकान्युक्तानि, परं कश्चिदर्थविशेषोऽस्ति, तथा हि 'इषु इच्छायाम्' एषणं एषणा इच्छा गवेषणमनुपलभ्यमानस्य पदार्थस्य परिभावनं, मार्गणं निपुणबुद्ध्या अन्वेषणं, उद्गोपन-विवक्षितस्य ॥१६॥ Jain Education Intern For Private Personel Use Only ww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy