SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Jain Education Int निवाणं खलु कज्जं नाणाइतिगं च कारणं तस्स । निवाणकारणाणं च कारणं होइ आहारो ॥ ६९ ॥ ' खलु ' अवधारणे साधूनां निवार्णमेव कार्य, ज्ञानादित्रिकं च तस्य निर्वाणस्य कारणं, निर्वाणकारणानां - ज्ञानदर्शनचारित्राणां आहारः कारणं भवति, आहारमन्तरेण देहस्थितेरभावात्तदभावे च ज्ञानाद्यसाधनात् आहारस्य तु दोषदुष्टस्य चारित्रभ्रंशकारित्वात् ।। ६९ ।। शुद्ध एव ग्राह्य इति दृष्टान्तेनैतदर्थं वक्ति जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाई । नाणाइतिगस्सेवं आहारो मोक्खनेमस्स ॥७०॥ यथा पटस्य तन्तवः कारणं तेषां च तन्तूनां पक्ष्माणि कारणानि भवन्ति, एवमनेन दृष्टान्तेन ज्ञानादित्रिकस्य मोक्षो नेमः इति नेमशब्दो देश्यः कार्यवाची, ततो मोक्षकार्यस्य आहारः कारणं भवतीति ॥ ७० ॥ मोक्षकारणतां दृष्टान्तेन पुनर्भावयति जह कारणमणुवहयं कज्जं साहेइ अविकलं नियमा । मोक्खक्खमाणि एवं नाणाईणि उ अविगलाई ॥ ७१ ॥ यथा बीजादिकारणं अनुपहतं - अग्न्यादिभिरविध्वस्तं अविकलं - परिपूर्ण सामग्री सम्पन्नं नियमादङ्गकुरलक्षणं कार्य जनयति, एवं अविकलानि ज्ञानादीनि मोक्षक्षमानि - मोक्षसाधनयोग्यानि भवन्ति ॥ ७१ ॥ पिण्डोपसंहारं तथैषणोपन्यासं चाह - संखेव पिंडियत्थो एवं पिंडो मए समक्खाओ । फुडवियडपायडत्थं वोच्छामी एसणं एत्तो ॥ ७२ ॥ सङ्क्षेपेण पिण्डितो मीलितोऽर्थः सङ्क्षेपपिण्डितार्थः, एष मया पिण्डः समाख्यातः । स्फुटविकटप्रकटार्थामेषणामितो वक्ष्ये, For Private & Personal Use Only शुद्धा हारस्य मोक्ष कारणत्वम् । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy