________________
क्षमारत्नीयावचूर्युपेता
श्री. पिण्डनियुक्तिः।
सा सीसमहर
भावपिण्डोपचयकारणं द्रव्यपिण्डः।
॥१५॥
पिण्डयत्यात्मना सह सम्बद्धं करोति सद्भावस्तस्माद्भावपिण्ड इत्युच्यते ॥६६॥ षण्णामपि पिण्डानां स्वरूपं कथयित्वा केनात्राधिकारः पिण्डेने त्याहदवे अञ्चित्तेणं भावमि पसत्थएणिहं पगयं । उच्चारियत्थसरिसा सीसमइविकोवणट्टाए ॥ ६७ ॥
इहास्यां पिण्डनियुक्ती द्रव्ये अचित्तद्रव्यपिण्डेन भावे च प्रशस्तेन भावपिण्डेन प्रकृतं-प्रयोजनं तर्हि शेषाः कथमुक्ता ? अत आह-शेषा नामादयः पिण्डा उच्चारितार्थसदृशा-उच्चारितः प्रतिपादितो योऽर्थः, पिण्डशब्देनान्वर्थयुक्तेन तत् सदृशास्तेषामपि पिण्ड इत्येवमुच्चार्यमाणत्वात् , ततः शिष्याणां मतेर्विकोपन-प्रकोपनं झटिति तत्तदर्थव्यापकतया प्रसरीभवन तदर्थमुक्ताः, अयं भावा-नामादयोऽपि पिण्डा उच्यन्ते, परमिहाचित्तद्रव्यपिण्डेन प्रशस्तभावपिण्डेन च कार्य, न शेषः, अस्थार्थस्य ज्ञानार्थं शेषनामादिपिण्डोपन्यास इति ॥ ६७ ॥ ननु मुमुक्षूणां मोक्षाय प्रशस्तेन भावपिण्डेन प्रयोजनं किमचित्तद्रव्यपिण्डेनेति, चेदुच्यते, भावपिण्डोपचयस्य कारणत्वात्तथैवाहआहारउवहिसेज्जा पसथपिंडस्सुवग्गहं कुणई। आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुद्धो ॥६॥
अचित्तद्रव्यपिण्डस्निधा-आहार उपधिः शय्या च, एतत्रयमपि प्रशस्तपिण्डस्य ज्ञानादेरुपग्रह-उपष्टम्भं करोति, केवलमत्राहारेऽधिकारः स चाहारोऽष्टभिः स्थानरुद्गमादिषु परिशुद्धो यथा यतीनां स्यात्तथोच्यते ॥ ६८ ।। ननु आहारपिण्डेन कथं विशेषकार्यमत्रेत्याह
अयं भावानापमाणत्वात् , जरतार्थसदृशा-चावच प्रशस्तन
॥१५॥
Jain Education Inter
For Private & Personel Use Only
R
w w.jainelibrary.org