________________
Jain Education International
प्रशस्ता प्रशस्तयोर्लक्षणमाह
झइ य जेण कम्मं सो सबो होइ अप्पसत्थो उ। मुच्चइ य जेण सो उण पसत्थओ नवरि विन्नेओ ॥ ६४ ॥
येनैकविधादिना भावपिण्डेन कर्म्म बध्यते, सर्वोऽपि अप्रशस्तो भवति, येन पुनः कर्म्मणो मुच्यते, नवरं पुनः प्रशस्तो मावपिण्डो विज्ञेयः ॥ ६४ ॥ ननु पिण्डो नाम बहूनामेकत्र मीलनमुच्यते, भावस्तु चित्तपरिणामरूपस्तस्यैकदा चैकस्यैव भावात् कथं पिण्डत्वमिति चेदुत्तरमाह -
दंसणनाणचरिचाण पज्जवा जे उ जत्तिया वावि । सो सो होइ तयक्खो पज्जवपेयालणापिंडो ॥ ६५॥
इह चारित्रग्रहणेन तपःप्रभृत्यपि गृह्यते, ततो दर्शनज्ञानचारित्राणां प्रत्येकं ये पर्यवा:- पर्यायाः अविभागपरिच्छेदरूपा यदा २ यावन्तो वर्त्तन्ते तदा २ स तत्तदाख्या दर्शनाख्यो ज्ञानाख्यश्चारित्राख्यः, पर्यायपेयालनापिण्डः - पर्यायाणां पालनया-संहतिविवक्षया पिण्डो भवतीत्यर्थः, एवं सर्वेष्वपि पिण्डेषु भावना कार्या ॥ ६५ ॥ प्रकारान्तरेण भावपिण्ड
स्वरूपमाह
कम्माण जेण भावेण अप्पगे चिणइ चिक्कणं पिंडं । सो होइ भावपिंडो पिंडयए पिंडणं जम्हा ॥६६॥
येन भावेन प्रशस्तेनाप्रशस्तेन वा कम्र्माणां शुभाशुभानां पिण्डं चिकणं-गाढसंश्लेषरूपं आत्मनि चिनोति जीव इति स भावपिण्डं स्यात् हेतुमाह यस्मात् कारणात् पिण्डनमिति पिण्ड्यते येन सहात्मा तत्पिण्डनं ज्ञानावरणीयादिकर्म्म तत्
For Private & Personal Use Only
भावपिण्डविमर्शः ।
www.jainelibrary.org