________________
Jain Education Inter
चउरिंदियाण मच्छियपरिहारो आसमच्छिया चेव । पंचेंदियपिंडांमे उ अब्ववहारी उनेरइया ॥ ४९ ॥ चतुरिन्द्रियाणां परिभोगः मक्षिकाणां परिहारः- पुरीषं तेन वमननिषेधादि क्रियते, यद्वा > अश्वमक्षिका उपयुज्यन्ते, काप्यौषधे, चेवशब्दः समुच्चयार्थः, पञ्चेन्द्रियपिण्ड उपयोगविषयतया परिभाव्यमाने तिर्यगादिपिण्डो, यथासम्भवमुपयोगी, नैरयिकाः पुनः अव्यवहारिण:- अनुपयोगिन इति ॥ ४९ ॥ ( पञ्चेन्द्रिय ) तिर्यगादिपिण्डोपयोगमाहचम्मट्ठिदंतनहरोमसिंगअविलाइछगणगोमुत्ते । खीरदधिमाइयाण य पंचिदियतिरियपरिभोगो ॥५०॥
चर्मादिना पश्चेन्द्रियतिर्यक्परिभोगः स्यात्, तथा हि चर्म्मणः क्षुरलेखनादिधरणार्थं कोशकरणे, अस्थ्रो गृद्धनखिकादे', शरीरस्फोटापनोदाय दन्तस्य - शूकरदंष्ट्रायाः, दृष्टि (पु) पुष्पिकनिवारणे, नखानां काप्यौषधे, रोम्णां कम्बलादौ शृङ्गस्यमहिषसत्कस्य परिभोग इति, सर्वत्र शृङ्गं हि मार्गभ्रष्टसाधूनां मीलनाय वाद्यते, अविला-गडरिका आदिशब्दादन्येषां पशूनां anuts गोमूत्रस्य पामापमर्द्दने, क्षीरदध्यादीनां भोजने परिभोग इति ॥ ५० ॥ मनुष्यस्य सचित्तादिमेदात्रिधोपयोगमाह - सच्चित्ते पल्वावण पंथुवएसे य भिक्खदाणाई । सीसट्ठिग अच्चित्ते मीसट्ठिसरक्खपहपुच्छा ॥ ५१ ॥
सचित्ते मनुष्यप्रवाजनं दीक्षा, पथि पृष्ठे उपदेशः - कथनं, भिक्षादानादिप्रयोजनं स्यात्, अचित्ते शीर्षास्थिना तद्धि लिङ्गे रोगोपशमनाय घर्षित्वा दीयते, मिश्रे अस्थियुक्तस्य सरजस्कस्य - भस्मावगुण्ठितस्य, कापालिकस्य पथि पृष्ठा अस्थाद्यचित्तं देहश्व सचित्त इति मिश्रता ।। ५१ ।। देवतापिण्डोपयोगमाह
For Private & Personal Use Only
तिर्यगादिपिण्डोपयोगः
www.jainelibrary.org