________________
क्षमा रत्नीयावचूर्युपेता
श्री
पिण्ड
निर्युक्तिः
॥ १० ॥
Jain Education Internat
संस्तारकाः- शय्यापट्टादयः, पात्राणि, दण्डकाः क्षौमौ कल्पौ च पीठफलकादिकं, औषधभेषजानि च तत्रौषधानि केवलहरीतक्यादीनि, भेषजानि - तेषामेव द्वित्रिसंयोगे, एवमादि बहुधा प्रयोजनं जायते ।। ४६ ।। अथ द्वीन्द्रियादिपिण्डचतुष्टयं, तत्प्रयोजनसम्बन्धमाह -
-
बियतियचउरो पंचिदिया य तिप्पभिइ जत्थ उ समेंति । सट्टाणे सट्टाणे सो पिंडो तेण कज्जमिणं ॥४७॥ यत्र द्वित्रिचतुष्पञ्चेन्द्रियास्त्रिप्रभृतयः समिति-संयन्ति - एकत्र संश्लिष्टीभवन्ति स पिण्डः स्वस्थाने २ भवति, त्रिग्रहणमुपलक्षणं, तेन द्वौ द्वावपि यत्र संश्लिष्यते, यथा- द्वीन्द्रिययोगे द्वीन्द्रियपिण्ड इति, तेन द्वीन्द्रियादिपिण्डेनेदं वक्ष्यमाणलक्षणं काय भवति || ३७ || तदेवाह -
बेदिपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादि जं वा वए वेजो ॥ ४८ ॥
साधोद्वन्द्रियादीनां प्रयोजनं द्विधा - शब्देन शरीरेण च शकुनादिपरिभावनेन शब्देन, शरीरप्रयोजनं त्रिधा, सम्पूर्णेनैकदेशेन शरीरसम्पर्कसमुद्भूतेन वा केन ( किमपि ) केषाञ्चित् कदाचिदुपयोग इति, तत्र द्वीन्द्रियाणां सम्पूर्णशरीरेण प्रयोजनमाह - द्वीन्द्रियाणां परिभोगोऽक्षाणां सशुक्तिशङ्खादीनां तत्राक्षाणां समवसरणस्थापनादौ शुक्तिशङ्खानां चक्षुष्पुष्पकाद्यपनयने, इह उद्देहिकाशब्देनोद्देहि का कृतवल्मीकमृत्तिका गृह्यते, तदादिखीन्द्रियाणां परिभोगः, उद्देहिकामृत्तिका (देः) सर्पदंशादौ दाहोपशमनाय भवतीति यद्वा वैद्यः किमपि त्रीन्द्रिय शरीरादिकं बाह्यप्रलेपादिनिमित्तं वदेत् सोऽपि ॥ ४८ ॥
For Private & Personal Use Only
द्वीन्द्रि व्यादिपिण्डः
तत्प्रयोजनं
च
॥ १० ॥
w.jainelibrary.org