SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावचूर्युपेता श्री पिण्ड निर्युक्तिः ॥ १० ॥ Jain Education Internat संस्तारकाः- शय्यापट्टादयः, पात्राणि, दण्डकाः क्षौमौ कल्पौ च पीठफलकादिकं, औषधभेषजानि च तत्रौषधानि केवलहरीतक्यादीनि, भेषजानि - तेषामेव द्वित्रिसंयोगे, एवमादि बहुधा प्रयोजनं जायते ।। ४६ ।। अथ द्वीन्द्रियादिपिण्डचतुष्टयं, तत्प्रयोजनसम्बन्धमाह - - बियतियचउरो पंचिदिया य तिप्पभिइ जत्थ उ समेंति । सट्टाणे सट्टाणे सो पिंडो तेण कज्जमिणं ॥४७॥ यत्र द्वित्रिचतुष्पञ्चेन्द्रियास्त्रिप्रभृतयः समिति-संयन्ति - एकत्र संश्लिष्टीभवन्ति स पिण्डः स्वस्थाने २ भवति, त्रिग्रहणमुपलक्षणं, तेन द्वौ द्वावपि यत्र संश्लिष्यते, यथा- द्वीन्द्रिययोगे द्वीन्द्रियपिण्ड इति, तेन द्वीन्द्रियादिपिण्डेनेदं वक्ष्यमाणलक्षणं काय भवति || ३७ || तदेवाह - बेदिपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादि जं वा वए वेजो ॥ ४८ ॥ साधोद्वन्द्रियादीनां प्रयोजनं द्विधा - शब्देन शरीरेण च शकुनादिपरिभावनेन शब्देन, शरीरप्रयोजनं त्रिधा, सम्पूर्णेनैकदेशेन शरीरसम्पर्कसमुद्भूतेन वा केन ( किमपि ) केषाञ्चित् कदाचिदुपयोग इति, तत्र द्वीन्द्रियाणां सम्पूर्णशरीरेण प्रयोजनमाह - द्वीन्द्रियाणां परिभोगोऽक्षाणां सशुक्तिशङ्खादीनां तत्राक्षाणां समवसरणस्थापनादौ शुक्तिशङ्खानां चक्षुष्पुष्पकाद्यपनयने, इह उद्देहिकाशब्देनोद्देहि का कृतवल्मीकमृत्तिका गृह्यते, तदादिखीन्द्रियाणां परिभोगः, उद्देहिकामृत्तिका (देः) सर्पदंशादौ दाहोपशमनाय भवतीति यद्वा वैद्यः किमपि त्रीन्द्रिय शरीरादिकं बाह्यप्रलेपादिनिमित्तं वदेत् सोऽपि ॥ ४८ ॥ For Private & Personal Use Only द्वीन्द्रि व्यादिपिण्डः तत्प्रयोजनं च ॥ १० ॥ w.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy