________________
सचित्वादिः वनस्पतिः अचित्त प्रयोजनं च
-
दृतिना-दृतिस्थेन बस्तिना बस्तिः तेन वायुना वेति समुच्चये नद्याद्युत्तारे प्रयोजनं भवति मुनेः, अनेन जलस्थो वातो गृहीतः, अथवा ग्लानत्वे सति वायुना कार्यमिति, क्वापि रोगे इत्यादिना सगृह्य वातोऽपानादौ क्षिप्यते, अनेन स्थलस्थो गृहीतः, सचित्तमिश्रौ यत्नतः परिहरणीयौ ॥ ४२ ॥ वनस्पतिकायमाहवणस्सइकाओतिविहो सचित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो निच्छयववहारओ चेव॥४३॥
पूर्ववद्वनस्पत्यभिलापेन व्याख्येया ॥ ४३ ॥ वनस्पती व्यवहारनिश्चयमतमाहसबोऽवडणंतकाओ सच्चित्तो होइ निच्छयनयस्स । ववहारस्स य सेसो मीसो पवायरोहाई॥४४॥
निश्चयनयस्य मतेन सर्वोऽप्यनन्तकायः सचित्त इति शेषः, प्रत्येको व्यवहारसचित्ता, मिश्रमाह-मिश्रा-अम्लानलोट्टादिः, तत्र प्रम्लानः सर्वोऽपि वनस्पतिकायोऽर्द्धशुष्को ज्ञेयः, लोहा-घरट्टादिचूर्णः, तत्र काश्चिनखिकाः सचित्ता अपि सम्भाव्यन्त इति मिश्रा, आदिशब्दात्तत्कालदलितकणिक्कादिपरिग्रहः ।। ४४ ॥ अचित्तमाहपुप्फाणं पत्ताणं सरड्डफलाणं तहेव हरियाणं । वटंमि मिलाणंमी नायवं जीवविप्पजढं॥४५॥
पुष्पाणां पत्राणां शलादुफलानां-कोमलफलाना, तथा हरितानां च वृन्ते-प्रसवबन्धने म्लाने-शुष्के सति जीवविप्रमुक्तं स्वरूपं ज्ञातव्यम् ॥ ४५ ॥ अथ प्रयोजनमाहसंथारपायदंडगखोमिय कप्पा य पीढफलगाई। ओसहभसज्जाणि य एमाइ पओयणं बहुहा ॥४६॥
Jain Education in
For Private & Personel Use Only
w
w w.jainelibrary.org